________________
५६० ]
सिद्धान्तकौमुदी ।
[ समासस्वर
( ६-२- १६६ ) निष्ठान्तादुपमानवाचिनश्च परं मुखं स्वानं वान्तोदातं बहुव्रीहौ । प्रक्षालितमुखः । पत्ते 'निष्ठोपसर्ग' (३८४४) इति पूर्वपदान्तोदात्तत्वम् । पूर्वपदप्रकृतिस्वरत्वेन गतिस्वरोऽपि भवति । उपमानम् - सिंहमुखः । ३६०४ जातिकाल सुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः । (६-२-१७०) सारङ्गजग्धः । मासजातः । सुखजातः । दुःखजातः । जातिकालेति किम् | पुत्रजातः । अनाच्छादनात्किम् । वस्त्रच्छुः । प्रकृतेति किम्-कुण्डकृतः । कुण्डमितः । कुण्डप्रतिपन्नः । अस्माज्ज्ञापकान्निष्ठान्तस्य परनिपातः । ३६०५ वा जाते । ( ६-२-१७१ ) जातिकाल सुखादिभ्यः परो जातशब्दो वान्तोदात्तः । दन्तजातः । मासजातः । ३६०६ नञ्सुभ्याम् । ( ६-२-१७२)
1
विकल्पस्यावकाशो यत्र गवादिपूर्वपदं न भवति । सिंहमुखः । गवादावुपमाने उभयप्रसङ्गेऽयमेव भवति पूर्वविप्रतिषेधेन । सिंहमुख इति । पक्षे पूर्वपदप्रकृतिखरः हिंसेः पचाद्यचि सिंहः । पृषोदरादित्वादायन्तविपर्ययः । जातिकाल । जात्यादिभ्यः परं क्वान्तमन्तोदात्तं स्याद् बहुव्रीहौ कृनादीन्वर्जयित्वा आच्छादन वाचकात्परं चेन्न । सारङ्गजग्ध इति । सारङ्गः पक्षिविशेषः स जग्धो भक्षितो येनेति विग्रहः । प्रत्युदाहरणे सर्वत्र पूर्वपदप्रकृतिस्वरः । तत्र पुत्रशब्दोऽन्तोदात्तः । वसेः ष्ट्रन् । वस्त्रशब्द आयुदात्तः । कुण्डशब्दो 'नविषयस्यानिसन्तस्य' इत्यायुदात्तः । ननूदाहरणेषु प्रत्युदाहरणेषु च 'निष्ठा' इति निष्ठान्तस्य पूर्वनिपातः प्राप्नोति । तत्र 'हाऽस्माज्ज्ञापकादिति । इदमेव मनसि विभाव्योतं 'जातिकाल सुखादिभ्यः परा निष्ठा वाच्या' इति । दन्तजात इति पक्षे पूर्वपदप्रकृतिस्वरः । दन्तशब्दः 'स्वानशिटामदन्तानाम्' इत्याद्युदात्तः । मासशब्दो 'प्रामादीनां च' इत्याद्युदात्तः । नञ्सु । नञ्सुभ्यां पर
1
स्पष्टमेतत् । अत्राऽव्ययशब्देनाव्ययीभावस्यापि ग्रहणमिति 'अव्ययीभावश्चेति सूत्रस्थभाष्यस्वरसः । प्रक्षालितेति । कृद्ग्रहणपरिभाषयाऽस्य निष्ठान्तत्वम् । तस्यापि वैकल्पिकस्वात्तदभावे श्रह पूर्वपदप्रकृतिस्वरत्वेनेति । सिंहमुखे पते पूर्वपदप्रकृतिस्वरः । जातिकाल । जात्यादिभ्यः परं क्वान्तं बहुव्रीहावन्तोदात्तं कृतादीन्वजयित्वा न चेद्वस्त्रार्थात्परं क्लान्तं भवति । मासजात इति । मासो जातो यस्येति विग्रहः | ‘कालाः परिमाणिना' इति तत्पुरुषे तु सिद्धमेवाऽन्तोदात्तत्वम् । पुत्रजात इति । पुत्रशब्दोऽन्तोदात्तः । वस्त्रशब्दस्त्रन्प्रत्ययान्तत्वादायुदात्तः । नव्विषयत्वात्कुण्डेमायुदात्तम् । वा जाते । पक्षे पूर्वपदप्रकृतिस्वरः । दन्तशब्दः स्वाङ्गत्वादायुदात्तः, मासो' प्रामादित्वात्तथा । सुख, दुःख, कृच्छ, अस्त्र, अतीक, प्रतीप करुण, कृपण, तृत्र, सोढ एते सुखादय इति हरदत्तः । 'सुखदुःखगहन कृच्छास्तू