________________
प्रकरणम् ]
सुबोधिनी - शेखर साहता ।
[ ५८६
( ६-२- १६६ ) व्यवधानवाचकात्परमन्तोदात्तम् । वस्त्रमन्तरं व्यवधायकं यस्य स वस्त्रान्तरः । व्यवायिनः किम् - आत्मान्तरः । श्रन्यस्वभाव इत्यर्थः । ३६०१ मुखं स्वाङ्गम् । ( ६-२- १६७ ) गौरमुखः । स्वानं किम् - दीर्घभुखा शाला । ३६०२ नाऽव्ययदिक्शब्द गोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः । ( ६-२- १६८) उच्चैर्मुखः । प्राङ्मुखः । गोमुखः । महामुखः । स्थूलमुखः । मुष्टिमुखः । पृथुमुखः । वस्लमुखः । पूर्वपदप्रकृतिस्वरोऽत्र । गोमुष्टिवस पूर्वपदस्योपमानलक्षणोऽपि विकल्पोऽनेन बाध्यते । ३६०३ निष्ठोपमानादन्यतरस्याम् ।
1
इति बाधित्वा परत्वदनेनान्तोदात्तत्वं प्राप्तं प्रतिषिध्यते । अतो 'बहुव्रीहौ विश्वं संज्ञायाम्' इत्यन्तोदात्तत्वं भवति । व्यवायि । उदाहरणे व्यवधानवाचिनोऽन्तरशब्दात् 'तत्करोति-' इति णिचि पचाद्यच् । प्रत्युदाहरणे त्वन्यवाच्यन्तरशब्दः । मुखम् । स्वानं मुखमुत्तरपदमन्तोदात्तं बहुव्रीहौ । दीर्घमुखा शालेति । मुखशब्देनात्र द्वारप्रदेशः शालाया उच्यते । स्वाङ्गमद्रववाचिलक्षणमिह गृह्यते न तु स्वम स्वाङ्गमिति व्युत्पत्तिलभ्यम् । श्रन्ययात्रापि स्यादिति भावः । नाऽव्यय । एभ्यः परो मुख• शब्दोऽन्तोदात्तो न स्यात् । पूर्वपदप्रकृतिस्वरोऽत्रेति । एषूदाहरणेषु 'बहुव्रीहौ प्रकृत्या पूर्वपदम्' इति पूर्वपदप्रकृतिस्वरेणान्तोदात्तं पूर्वपदम् । तथाहि 'उदि चैसिः । उच्चैः । ‘अनिगन्तोऽञ्चतावप्रत्यये' इति प्रशब्द उदात्तः । तत एकादेशस्वरेण प्राद: शब्द उदात्त: 'गमेर्डोसिः' । गौः । 'वर्तमाने पृषत्' इत्यादिना महच्छब्द उदात्तो निपातितः । स्थूलशब्दः 'ऋन्द्र -' इत्यादावन्तोदात्तो निपातितः । मुषेः क्तिच् । मुष्टि: । ' प्रथदि संप्रसारणं सलोपश्च' इति कुः । पृथुः । ' कृतृवदि-' इत्यादिना सः। वत्सः । उपमानलक्षणो विकल्प इति । निष्ठोपमानादिति प्राप्तः । बाध्यत इति । अस्य प्रतिषेधस्यावकाशो यत्र गवाद्युपमानं न भवति । गौर्मुखमिव यस्य सः । वत्सो मुखमिव यस्येति । सर्वत्रात्र गवाद्युपमेयं नोपमानम् । उत्तरस्य
1
बहुज्ञायाम् । विश्वामित्र इति । 'मित्रे चर्षों' इति दीर्घः । अत्र 'बहुव्रीहौ विश्व सञ्ज्ञायामित्येव भवति । श्रनृषौ तु विश्वमित्रे इदमेव परत्वादित्युक्तम् । व्यवायिनोऽन्तरम् ।। उदाहरणप्रत्युदाहरणयोरन्तरशब्दस्य परनिपातोऽस्मादेव ज्ञापकात् । श्रात्मान्तर इति । श्रात्मा = स्वभावोऽन्यो यस्येत्यर्थः । 'अन्यस्वभाव इत्यर्थ' इति युक्तः पाठः । श्रन्तरं किम् ? वस्त्रव्यवधायकः । मुखं स्वाङ्गम् । बहुव्रीहावुत्तरपदभूतमद्रवमित्यादिलक्षणलक्षितस्वाङ्गवाचि मुखमन्तोदात्तमित्यर्थः । पूर्वपदेति । उच्चैरादीनि पूर्वपदान्यन्तोदात्तान्यत्र । उपमानलक्षण इति । 'निष्ठोपमाना' दित्युत्तरसूत्रविहितः । बाध्यत इति । पूर्वविप्रतिषेधादिति भावः । वृत्तौ