SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ ५८८ ] सिद्धान्तकौमुदी । [ समासस्वर गात्समासः । इदमेतसद्भयः किम्-यत्प्रथमः । प्रथमपूरणयोः किम्-तानि बहून्यस्य तद्दुः । क्रिया गणने किम् । अयं प्रथमः प्रधानं येषां ते इदं प्रथमाः । द्रव्यगणनमिदम् । गणने किम्-प्रयं प्रथमो येषां ते इदंप्रथमाः । इदंप्रधाना इत्यर्थः । उत्तरपदस्य कार्थित्वात्कपि पूर्वमन्तोदात्तम् । इदंप्रथमकः । बहुव्रीहाविश्यधिकारो 'वनं समासे' ( ३३१२ ) इत्यतः प्राग्बोध्यः । ३८६७ संख्यायाः स्तनः । (६-२-१६३) बहुव्रीहावन्तोदात्तः । द्विस्तना । चतुःस्तना । संख्यायाः किम् - दर्शनीयस्तना । स्तनः किम् - द्विशिराः । ३८६८ विभाषा छन्दसि ( ६-२- १६४ ) द्विस्तनां करोति । ३८६६ संज्ञायां मित्राजिनयोः । ( ६-२-१६५) देवमित्रः । कृष्णाजिनम् । संज्ञायां किम्-प्रियमित्रः । * ऋषिप्रतिषेधो मित्रे । विश्वामित्र ऋषिः । ३६०० व्यवायिनोऽन्तरम् । निगमनं भोजनं वा । अनेन प्रथम इदंप्रथम इति । तृतीयापूर्वपदप्रकृतिस्वर एव भवति । यत्प्रथम इति । यत्प्रथमं गमनं यस्य स यत्प्रथमः । इदं प्रधाना इत्यर्थइति । अनेन प्रधानवचनः प्रथमशब्दो न त्वेकत्वसंख्यावचन इति दर्शितम् । तेनात्र गणनाभाव उक्तः । उत्तरपदस्येत्यादि । इह समासस्येति प्रकृतम् । उत्तरपदादिरित्यतः प्रभृति उत्तरपदस्येति च तन्त्रम् । इहोत्तरपदं कार्यित्वेनाश्रीयते तेन यदा कबुत्पद्यते तदा कपि परतो यत्पूर्वं प्रथमेति तदन्तोदात्तं भवति न तु कबन्तम् । कप्प्रत्ययो हि समासस्यैवान्तो नोत्तरपदस्य । ' उत्तरपदावयवाः समासान्ता' इति पचेऽपि प्रथमपूरणयोरिति विशिष्टरूपग्रहणात् । कपस्तत्रानन्तर्भावादुपात्तयोरेव स्वरः । संख्यायाः । संख्यायाः परः स्तनशब्दो ऽन्तोदात्तः स्यात् । दर्शनीयस्त नेति । पूर्वपदप्रकृतिस्वरः । दर्शनीयशब्दोऽनीयर् प्रत्ययान्तो रित्स्वरः । विभाषा । पूर्वसूत्रोक्तं छन्दसि वा स्यात् । द्विस्तनामिति । अन्तोदात्तत्वम् । ('स्वाङ्गाच्चोपसर्जनात्' इति ङीष् । चतुःस्तनेति । पूर्वपदप्रकृतिस्वरेण ' चतेरुरन' इति चतुर् शब्दस्य नित्त्वादायुदात्तत्वम् । अत्रान्तोदात्तत्वाभावात् 'स्वाङ्गात् -' इति ङीष् न ) । संज्ञायां मित्रा । एतयोरुत्तरपदयोरन्त उदात्तः स्याद् बहुव्रीहौ संज्ञायाम् । विश्वामित्र इति । 'मित्रे चर्षों' इति दीर्घः । अत्र 'बहुव्रीहौ विश्व संज्ञायाम्' अयं प्रथम इति । देवदत्तादिः । अयं प्रथम एषामिति । श्रयं पाकादिः प्रधानमेषामित्यर्थः । उत्तरपदस्य कार्यित्वादिति । समासान्तस्तु समासावयव एवेति भावः । द्विस्तना चतुःस्तनेति । 'द्विस्तनी' त्यादौ तु ङीषि सतिशिष्टत्वादन्तोदात्तत्वं सिद्धमिति तन्नोदाहृतमित्याहुः । विभाषा छन्दसि । पूर्वसूत्रोक्तस्य विभाषा । पचे पूर्वपदप्रकृतिस्वरः । सञ्ज्ञायामिति । एतयोरुत्तरपदयोरन्त उदासी
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy