________________
प्रकरणम् ] सुबोधिनी शेखरसहिता । [५८७ दयश्च । (६-२-१६०) नषः परेऽन्तोदात्ताः स्युः । प्रकर्तव्यः । उक । अनागा. मुकः । इण्णुच् । अननकरिष्णुः । इग्णुज्ग्रहणे खिष्णुचो व्यनुबन्धकस्यापि प्रहणमिकारादेर्विधानसामर्थ्यात् । अनाढ्यं भविष्णुः । चार्वादिः । प्रचारुः । भसाधुः । (ग) राजाह्नोश्छन्दसि । भराजा। मनहः। भाषायां नमः स्वर एव । ३८६५ विभाषा सुन्नन्नतीक्षणशुचिषु।(६-२-१६१) तृन् । प्रकर्ता। भव । अनन्नम्। प्रतीषणम् । अशुचि । पक्षे अव्ययस्वरः । ३८६६ बहुव्रीहा. विदमेतत्तद्यः प्रथमपूरणयोः क्रियागणने । (६-२-३६२) एभ्योऽ नयोरन्त उदात्तः। इदं प्रथमं यस्य स इदंप्रथमः । एतद्वितीयः । तत्पश्चमः। बहुव्रीहो किम्-अनेन प्रथम इदंप्रथमः । 'तृतीया' ( ६३२) इति योगविभा. करोति स एवमातिप्यते । अनागामुक इति। 'लषपतपद-' इत्युकञ् । अनलङ्करिष्णुरिति। 'श्रलंकृञ्-' इतीष्णुच् । इकारादेविधानसामर्थ्यादिति । भवतेरुदात्तत्वात्ततः परस्य खिष्णुच इटवेकारादित्वे सिद्ध इकारादेविधानमिह सामान्यग्रहणार्थमेवेति भावः । अनाढयंभविष्णुरिति । 'भुवः खिष्णुच्खुकनौ' इति खिष्णुच । अचारुरिति । 'हसति-' इति चरेरुण। असाधुरिति । सानोतेः 'कृवापाजि-' इत्युण । राजाह्नोः । चार्वाद्यन्तर्गणसूत्रम् । नमः परयोरेतयोश्छन्द. स्यन्तोदात्तत्वम् । अराजेति । 'नमस्तत्पुरुषात्-' इति समासान्तनिषेधः । विभाषा तृन् । नत्र उत्तरपदान्येतान्यन्तोदात्तानि स्युस्तत्पुरुषे। बहुव्रीहाविदम् । एभ्य इत्यादि । इदमेतत्तयः अनयोः प्रथमपूरणयोः । इदं प्रथमं यस्येति । केष्णुजित्यत्र । गुणप्रतिषेध इति सम्बध्यते। इकारादेरिति । इदं खिष्णुज्विधावाकरे स्पष्टम् । चारु, साधु, यौधिक, अनमेजय, वदान्य, अनकस्मात् 'वर्तमान वर्धमानत्वरमाणध्रियमाणरोचमानाः सज्ञायाम्' । 'प्रीयमाणकियमाणशोभमाना' अपि वचित्पठ्यन्ते। 'विकार सदृशे व्यस्तसमस्ते', गृहपति, गृहपतिक । 'राजाह्रोश्छन्दसि'। राजाहोरिति गणसूत्रम् । छन्दस्येवैतौ चार्वादी इत्यर्थः । विभाषा तृन्नन्नतीक्ष्णशु। नमः पराण्येतान्यन्तोदात्तानीत्यर्थः । गुणप्रतिषेध इत्येव । पक्षेऽव्ययेति । एतस्सूत्रं यावत् 'तत्पुरुषे शालाया'मिति सूत्रस्थतत्पुरुषपदानुवृत्तेरिति भावः । वृत्तौ चेदं स्पष्टम् । बहुव्रीहाविदमे । अनयोरिति । क्रियागणनवृत्त्योः प्रथमशब्दपूरणप्रत्ययान्तयोरुत्तरपदयोरित्यर्थः । इदं प्रथममस्येति । 'गमनमागमनं वेति शेषः । तृतीयेतीति । एवञ्च तृतीयापूर्वपदप्रकृतिस्वरोऽत्रेति भावः । इदं पदमार्या स्पष्टम्। केचित्तु तृतीयेत्यत्र योगविमागस्य भाष्येऽनुक्तत्वात्सुप्सुपेति समासेऽन्तोदात्तत्वमेव । श्रयमिव प्रथम इदंप्रथमः स इत्युदाहर्तुमुचितम्। प्राथम्यमेव साधारणो धर्म इत्याहुः ।