________________
५८६]
सिद्धान्तकौमुदी। [समासस्वरकिम्-अपाघम् । तद्धितः किम्-अदेयम् । गुणप्रतिषेधे किम्-दन्त्यादन्य. ददन्त्यम् । तदनुबन्धग्रहणे नातदनुबन्धकस्येति । नेह। भवामदेव्यम् । ३८६१ अच्कावशक्ती । (६-२-१५७ ) अजन्तं कान्तं च नमः परमन्तोदात्तमशको गम्यायाम् । अपचः । पक्तुं न शक्रः। अविलिखः । अशको किम्अपचो दीक्षितः । गुणप्रतिषेधे इत्येव । भन्योऽयं पचादपचः । ३८६२ आक्रोशे च । (६-२-१५८) नमः परावच्कावन्तोदात्तावाकोशे। अपचो जारमः । पक्तुं न शक्नोतीत्येवमाक्रोश्यते । प्रविक्षिपः । ३८६३ संज्ञायाम् ।(६-२-१५६) नमः परमन्तोदात्तं संज्ञायामाकोशे । प्रदेवदत्तः । ३८६४ कृत्योकेष्णुश्चार्वाः समूहे 'पाशादिभ्यो यः' । अदन्त्यमिति । 'शरीरावयवाच्च' इति यत् । अपाद्य. मिति । 'पादार्घाभ्यां च' इति यत् । अदेवमिति। डुदाञ् दाने अर्थेि अचो यत् । 'ईद्यति' इतीत्वे गुणः। अवामदेव्यमिति । वामदेवेन दृष्टमित्यर्थे 'वामदेवाद् ड्ययो-' इति ज्यः । अपच इति । पचाद्यच् । अविलिख इति । 'इगुपध-' इति कः । 'कृत्योकेष्णुचार्वादयश्च-' इति वक्ष्यमाणैः कृत्योकेष्णुभिः साहचर्यादच्. कयोः कृतोरिह प्रहणं तेन कृग्रहणपरिभाषया विलिख शब्दस्य कान्तत्वम् । अपचो दीक्षित इति । दीक्षितः शास्त्रविरोधाम पचति न त्वशक्तत्वेन । अपचो जाल्म इति। पक्तुं शक्तोऽपि पक्तुमयं न शक्नोतीत्यनेन प्रकारेण क्षिप्यते । तदाह पक्तुमित्यादि । अदेवदत्त इति । देवदत्तः सन्यस्तकर्म न तद्धिते किमिति । अत्र तद्धिते इति नानुवर्तते इति मतान्तरम्-'अत्वसन्तस्य'ति सूत्रे पाकरे ध्वनितम् । तत्र हि-ण्यति तदनुबन्धकपरिभाषयाऽस्याऽप्रवृत्तिरित्युक्तम् । दन्त्यादन्यदिति । उक्तरीत्या आरोपितदन्तभवमित्यर्थोऽस्य बोद्धयः । उदाहरणे तु दन्तभवभिनमिति । दन्तभवत्वाऽभाववदिति यावत् । अच्का । नञः पर• मिति । गुणप्रतिषेधार्थान्ना इत्यर्थः । दीक्षित इति । अस्य हि शास्त्रनिषिद्धः पाको न तु तत्राऽशक्कोऽयम् । अन्योऽयं पचादिति । अस्याऽऽरोपितपाककर्तेत्यर्थः पूर्ववत् । उत्तरकृत्योकादिसाहचर्यादत्राऽच्को कृतावेव । कृद्ग्रहणादेव गतिकारकपूर्ववेऽपि भवति-अप्रपच इति। नमः पराविति । गुणप्रतिषेधार्थादित्येव । पक्तुं नेति । केचित्तु पक्तुं समर्थोऽपि न पचतीत्येवमाश्यत इत्याहुः । अत्र 'अच्को' इति वृत्त्यनुरोधादनुवर्तितम् । 'नवे'ति सूत्रभाष्ये तु 'अत्राऽच्काविति नानु. वर्तते, 'विभाषातृन्नन्ने'त्यपेक्षया आक्रोशे इदमेव पूर्वविप्रतिषेधन भवतीति स्थितम् । 'सज्ञाया'मित्युत्तरसूत्रे गुणप्रतिषेध इति नानुवर्तते इति नाऽत्र पक्षे तद्वैयर्थ्यम् । अदेवदत्त इति । देवदत्तः सन् यस्तत्कार्य न करोति स एवमाक्रुश्यते । कृत्यो.