SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ ५८४ ] सिद्धान्तकौमुदी। [समासस्वरसन्धौ। (६-२-१५४) पणबन्धेनैकार्य सन्धिः । तिलमिश्राः । सपिमिश्राः । मिश्र किम्-गुडधानाः । अनुपसर्ग किम्-तिलसंमिश्राः मिश्रग्रहणे सोपसर्ग. ग्रहणस्येदमेव ज्ञापकम् । असन्धौ किम् -ब्राह्मणामश्रो राजा। ब्राह्मणैः सह सहित ऐकार्यमापनः । ३८८६ नमो गुणप्रतिषेधे सम्पाद्यहंहितालमर्थास्तद्धिताः। ( ६-२-१५५ ) संपाचाद्यर्थतद्धितान्ता नमो गुणप्रतिषेधे वर्त. मानात्परेऽन्तोदात्ताः। कर्णवेष्टकाभ्यां संपादि कार्णवेष्टकिकम् । न कार्णवेष्ट. किकमकार्णवेष्टकिकम् । छेदमर्हति छैदिकः । न छैदिकोऽच्छेदिकः । न वस्सेभ्यो हितोऽवत्सीयः। न सन्तापाय प्रभवति असान्तापिकः । नमः किम्-गर्दभरथमर्हति गार्दभरथिकः । द्विगार्दभरथिकः । गुणप्रतिषेधे किम्-गार्दभरथिकादन्योऽगादपसर्ग मिश्रमन्तोदात्तं स्यादसन्धौ। अयमपि 'तत्पुरुष तुल्यार्थ-' इत्यस्यापवादः । पणबन्धेनैकार्थ्यमिति । पणबन्धः परिभाषणम् । यदि मे भवानिदं कुर्यादहमपि भवतः करिष्यामीत्येवंरूपम् । तिलमिश्रा इति । 'पूर्वसदृशसमोनार्थ-' इति समासः । गुडधाना इति । 'भक्ष्येण मिश्री-' इति समासः । तिलसंमिश्रा इति । कथं पुनर्मिश्रशब्दस्य विधीयमानं सोपसर्गरण लभ्यतेऽत प्राह मिश्रग्रहणेत्यादि । तेन मिश्रश्लदणैरिति विधीयमानः समासः सोपसर्गेणापि सिद्धः । ब्राह्मणमिश्र इति । यदि मे भवन्तः कार्य कुर्युस्तदाहं भवतामुपकारं करिष्यामीत्येवं. रूपेण पणबन्धेन कृत्वा ब्राह्मणैः सह मिलित इत्यर्थः । अपरे तु स्वरूपभेदग्रहणं सन्धिः। ब्राह्मणमिश्र इत्यत्र ब्राह्मणेनेकीभावेऽपि राजा स्वस्वरूपेण गृह्यते । गुडमिश्र इत्यत्र गुडेनेकीभूतस्य स्वरूपभेदो न गृह्यत इत्याहुः। नमो गुण । कार्णवेष्टकिकमिति । 'संपादिनि' इति प्राग्वतेष्ठञ् । छैदिक इति । 'छेदादिभ्यो नित्यम्' इति ठक् । वत्सीय इति । 'तस्मै हितम्' इति छः । सान्तापिक इति । 'तस्मै प्रभवति सन्तापादिभ्यः' इति ठञ् । नञः किमिति। प्रतिषेधे प्रायेण नम एव वृत्तिदर्शनात्प्रश्नः । विगार्दभरथिक इति । अव्ययपूर्वपदप्रकृतिस्वर प्रहणमेवेत्याहुः । ऊनेत्यादि किम् ? मासपूर्वः । मिश्रश्चानुप । तृतीयान्तादुत्तरपदमनुपसर्ग मिश्रमन्तोदात्तमित्यर्थः। पणबन्धेनेति । 'यदि भवन्त इदं मे कार्य कुर्युस्तदाऽहमपि भवतामुपकारं करिष्यामी'त्येवंरूपेणेत्यर्थः। मिश्रग्रहणे इति । अन्यथा प्रतिपदोक्तपरिभाषया 'मिश्रलक्ष्णैरिति समासस्यैव प्रहणे तद्वैयर्थ्य स्पष्टमेव । कार्णवेष्टकिकमिति । क्रमेण-'सम्पादिनी'ति ठञ् , 'छेदादिभ्यो नित्य'मिति ठक् , 'तस्मै हितमिति छः, 'तस्मै प्रभवतीति ठक् । विगार्दभरथेति । तदर्हति' इति ठक् । गार्दभरथिकादन्य इति । न चाऽस्य , गर्दभरथाईणकर्तृभिन्न इत्यर्थः,
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy