SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता । [ ५८६३ किम् - प्रभूतौ सङ्गतिम् । अत्र 'तादौ च निति' (३७८४ ) इति स्वरः । ३८८६ सप्तम्याः पुण्यम् । ( ६-२- १५२ ) अन्तोदात्तम् । अध्ययनपुण्यम् | तत्पुरुषे तुझ्यार्थेति प्राप्तम् । सप्तम्याः किम्-वेदेन पुण्यं वेदपुण्यम् । ३८८७ ऊनार्थकलहं तृतीयायाः । ( ६-२- १५३ ) माषोनम् । माषविकलम् | वाक्कलहः । तृतीयापूर्वपदप्रकृतिस्वरापवादोऽयम् । अत्र केचिदर्थेति स्वरूपग्रहणमिच्छन्ति । धान्यार्थः । ऊनशब्देन वर्थनिर्देशार्थेन तदर्थानां ग्रहणमिति प्रतिपदोक्तत्वादेव सिद्धे तृतीयाग्रहणं स्पष्टार्थम् ३८८८ मिश्रं चानुपसर्गम शयनासनस्थानेष्वधिकरणे ल्युट् । ब्राह्मणयाजक इति । ' याजकादिभिश्च' इति सूत्रे षष्ठीसमासार्थं यै याजकादयस्त एव गृयन्ते । प्रभूतौ संगतिमिति । 'तादौ च निति कृत्यतौ -' इति पूर्वपदप्रकृतिस्वर एवात्र भवति । सप्तम्या । सप्तम्यन्तात्परं पुण्यमित्येतदुत्तरपदमन्तोदात्तं स्यात्तत्पुरुषे । अध्ययनपुण्यमिति । अध्ययनेन पुण्यमिति विप्रः । सप्तमीति योगविभागात्समासः । ऊनार्थ । तृतीयान्तात्पराणि ऊनार्थानि कलहश्च एतान्युत्तरपदान्यन्तोदात्तानि स्युः । उदाहरणेषु ' पूर्वसदृश - ' इत्यादिना तृतीयासमासः । केचित्वित्यादि । नन्वेवमूनशब्दस्यापि स्वरूपस्य ग्रहणं प्रसज्येत । तत तदर्थानामन्येषां ग्रहणं न स्यादत आह ऊनशब्देन विति । अर्थनिर्देशार्थत्वं तु व्याख्यानादवसेयम् । मिश्रं च । तृतीयान्तात्परमनुअध्ययन पुण्यमिति । सुप्सुपेति समासः । पुण्यशब्दस्याऽव्युत्पन्नत्वे आह तत्पुरुषे तुल्येति । 'नब्विषयस्ये' त्यायुदात्तः पुण्यशब्दः । व्युत्पन्नत्वे तु 'यतोनाव:' इत्याद्युदात्तः, तदा कृत्स्वरापवादोऽयम् । उक्तसमासस्याऽप्रतिपदोक्तत्वादेतदपवादत्वमेव युक्तम् । सप्तमीति योगविभागस्तु भाष्यानारूढः । तत्पुरुषे इत्यस्याsत्राऽसम्बन्ध एव, सामर्थ्यात् । वेदेन पुण्यं वेदपुण्यमिति । व्युत्पत्तौ कृत्स्वरः । अव्युत्पत्तौ पूर्वपदप्रकृतिस्वरः । वेदशब्दोऽत्र वृषादित्वादायुदात्तः । ऊनार्थकल हम् । [ ऊनार्थकलहानि ] तृतीयान्तात्पराण्येतान्युत्तरपदान्यन्तोदात्तानीत्यर्थः । तदर्थानामिति । व्याख्यानादिति भावः । स्पष्टार्थमिति । न च धान्यायाऽर्थो धान्यार्थं इत्येतद्व्यावर्त्यम्। 'श्रर्थे' इति पूर्वपदप्रकृतिस्वरस्य बाधकस्य सत्त्वात् । इदं तृतीयासमासे सावकाशम् । न च समस्य सर्वानुदात्तत्वात्प्रकृतिस्वराऽभावे समर्थ - मित्येतद्द्यावर्त्त्यम् तदभावे समासस्वरेणाऽन्तोदात्तस्येष्यमाणत्वादित्याहुः । परे त्वत्रोनशब्देन तदर्थप्रहणे न भाष्यानुप्रहः, माषविकल इत्यस्यान्तोदात्तत्वे च न दृढं मानम् । अत्र 'तृतीयाया' इत्यनेन प्रतिपदोक्त परिभाषाप्रवृत्त्यभावो ज्ञाप्यते । तेन वाचाकृतः कलह इत्याद्यर्थ के वाकलदादावन्तोदात्तत्वं भवत्येव । श्रर्थेति त्वत्र स्वरूप
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy