________________
५५२]
सिद्धान्तकौमुदी। [समासस्वरइत्थम्भूतेन कृतमित्येतस्मिन्नर्थे यः समासखत्र कान्तमुत्तरपदमन्तोदात्तं स्यात् । सुसम्लपितम् । प्रमत्तगीतम् । कृतमिति क्रियासामान्ये करोति भूतप्रादुर्भाव एव । तेन प्रखपिताधपि कृतं भवति । 'तृतीया कर्मणि' (३८७२) इत्यस्याप. वादः । ३८८४ अनोभावकर्मवचनः । (६-२-१५०) कारकात्परमनप्रत्ययान्तं भाववचनं कर्मवचनं चान्तोदात्तम् । पयःपानं सुखम् । राजभोजनाः शाखयः । अनः किम्-हस्खादायः । भेति किम्-दस्तधावनम् । करणे क्युट । कारकारिकम् । निदर्शनम् । ३८८५ मन्किन्व्याख्यानशयनासनस्थानयाज कादिक्रीताः। (६-२-१५१ ) कारकास्पराणि एतान्युत्तरपदान्यन्तोदात्तानि तत्पुरुषे । कृत्स्वरापवादः । रथवर्म । पाणिनिकृतिः । छन्दोग्याख्यानम् । राजशयनम् । राजासनम् । अश्वस्थानम् । ब्राह्मणयाजकः । गोकीतः। कारका मापन्न इत्थंभूतस्तेन कृतमित्यर्थे । सुप्तप्रलपितमित्यादि । कथमेतान्युदाहरणानि यावता कृतमित्युच्यते । न च प्रलपितादीनि कृतानि । अभूतप्रादुर्भाव एव हि करो. तितते । ततश्च सुप्तकृतं सुप्तभावितम् उन्मत्तभावितमित्यादिकमेणैवोदाहर्तव्यमित्यत माह कृतमितीति । कृतिसामान्ये करोतिर्वतते इति । ततश्च यथा 'क्रियावचनो धातुः' क्रियायो क्रियार्थायामि'त्यादौ विशेषाणामपि ग्रहणं भवति तद्वदत्रापि । ननु सुप्तप्रलपितमित्यादौ कारकादिति योगविभागेनैव सिद्धमित्याशङ्कयाह तृतीयेति । तस्य तु योगविभागो न बाधकः, तस्य निर्विषयत्वं स्यात् । अभूतप्रादुर्भाव इति । अभूत. प्रादुर्भावो निष्पादनम् । अनो। 'गतिकारकोपपदात्कृत्' इत्यस्यापवादः । पयःपानमिति । 'कर्मणि च येन-' इति कर्मण्युपपद भावे ल्युट् । उपपदसमासः । राजभोजना इति । 'कृत्यल्युटो बहुलम्' इति कर्मणि ल्युट् कर्तरि षष्ठीसमासः । मक्किन् । कृत्स्वरापवादः । कीते तु तृतीयाकर्मणीत्यस्य । रथवत्मेति । वृतेर. धिकरणे मनिन् । कर्तरि षष्ठयाः समासः । पाणिनितिरिति । कर्मणि क्विन् । पूर्ववत्समासः । छन्दोव्याख्यानमिति । व्याख्यानमिति करणे ल्युट् । मा भूत् । ततश्चेह न स्यात-देवैः खाता देवखाता । इत्येवमति । इत्येवमप्यत्रेत्यर्थः । 'अत्र कारकादिति योगं विभज्य दूरादागत इत्यत्रान्तोदात्तत्वं विधेयं गतिर. नन्तरः' इति बाधनार्थ'मित्युक्तम् । कृतं भवतीति । भावे यदा प्रलपितादयस्तदा थाथादिस्वरेणैव सिद्धम् । अनो भाव। कृत्स्वरापवादोऽयम् । पयःपानमिति । 'कर्मणि च येने ति कर्मण्युपपदे भावे ल्युट् । राजभोजना इति । बाहुलकात्कर्मणि ल्युट् । कृत्स्वरापवाद इति । क्रोते तु 'तृतीया कर्मणी'त्यस्येत्याहुः । व्याख्यानादिषु करणे ल्युट् । याजकादयो-'याजकादिभिश्वे'ति सूत्रे गणे पठिताः ।