SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तकौमुदी। [समासस्वरपुदात्तः शचीराब्दः । शचीमिर्न इति दर्शनात् । तनूनपादुज्यते । नराशंस वाजिनम् । निपातनाहीयः । शुनःशेपम् । ३८७५ देवताद्वन्द्वे च । (६२१४१) उभे युगपत्प्रकृत्या स्तः । मा य इन्द्रावरुणौ । इन्द्रावृहस्पती वयम् । देवता किम्-प्रचन्यग्रोधौ । द्वन्द्व किम्-प्रमिष्टोमः । ३८७६ नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु । (६-२-१४२) पृथिव्यादि. वर्जितेऽनुदात्तादावुत्तरपदे प्रागुनं न । इन्द्राग्निभ्या कं वृषणः । अपृथिवीम्यादी कृते नित्त्वादायुदात्तत्वमित्यर्थः। शचीपतिरिति। एते षष्ठीसमासाः । तनूनपा. दिति । 'कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः' इति ऊप्रत्ययान्तत्वादन्तोदात्तोऽपि तनूशब्दोऽत्रायुदात्तः । न पातयतीति नपात् । 'नभ्राण्णपानवेदा-' इति सूत्रे आद्यु. दात्तो नपाच्छन्दो निपात्यते। तन्वाः नपादिति विप्रहः । नराशंसमिति । नरा एनं शंसन्तीत्यर्थः । न नये 'ऋदोरप्' शंसेः कर्मणि घञ् द्वावप्याद्युदात्तौ । 'अन्येषामपि-' इति दीर्घः । शुनःशेपमिति । शुन इव शेपोऽस्येति बहुव्रीहिः । 'शेपपुच्छ. लागूलेषु शुनः' (संज्ञायाम् ) इत्यलुक् षष्ठयाः । श्वनशब्दः प्रातिपदिकस्वरेण शेपशब्दः 'स्वाङ्गशिरामदन्तानाम्' इत्याधुदात्तौ। इन्द्रावरुणाविति । इन्दशब्दः 'ऋजेन्द्राम-' इति रगन्तः, वरुणशब्दः 'कृदारिभ्य उनन् इत्युननन्तः । उभौ आधुदात्तौ। 'देवताद्वन्द्वे च-' इति पूर्वपदण्यानछ । इन्द्राबृहस्पती इति । बृहस्पतिशब्दे वाचस्पत्यादित्वाद् द्वावाद्युदात्ती, तेनेन्द्रबृहस्पती इत्पत्र त्रय आद्युदात्ताः। अग्निष्टोम इति । 'अग्नेः स्तुत्स्तोमसोमाः' इति षत्वम् । इन्द्राग्निभ्या दात्तः स्यादिति भावः । एवमूप्रत्ययान्ततनूशब्दोप्याद्युदात्तो निपायते, नपाच्छन्दोऽपि 'नभ्रा'डिति सूत्रे आयुदात्तो निपायते । वनस्पत्यादयः षष्ठीतत्पुरुषाः । तनूनपादित्यत्र तन्वाः नपादिति विप्रहः । नराशंसमिति । नरशंसशब्दावब्घमन्तत्वादा. युदात्तौ । नरा एनं शंसन्ति स नराशसः । निपातनादिति । 'अन्येषामपी'ति दीर्घ इत्यन्ये । शुनःशेप इति । श्वन-शेपशब्दौ प्रातिपदिकखरनिपातनखरान्यतरस्वागस्वराभ्यामन्तोदात्तायुदात्तौ । शण्डामऊ । घअन्तत्वादायुदात्तौ । द्वन्द्वः । 'अन्येषामपी'ति दीर्घः। तृष्णावरूत्री । तृष्णशब्दो 'निष्ठा च धजि याद्युदात्तः । 'प्रसितस्कभिते'त्यत्र वरूत्रीशब्द आयुदात्तो निपात्यते । बम्बा विश्ववयसौ अन्तो. दात्तौ । मर्मृत्युः-अन्तोदात्तः । वृत् ॥ इन्द्रावरुणाविति । इन्द्रो' रनन्त आद्यु. दात्तः । वरुणशब्दोप्युन्नन्तत्वात्तथैव । नोत्तरपद । इन्द्राग्निभ्यामिति । अग्नि
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy