________________
प्रकरणम् ]
सुबोधिनी - शेखरसहिता ।
[ ५७७
>
( ६-२-१४० ) एषु पूर्वोत्तरपदे युगपत्प्रकृत्या । वनस्पति वन श्रा । बृहस्पति यः । बृहच्छन्दोऽत्राद्युदात्तो निपात्यते । हर्षया शचीपतिम् । शार्ङ्गरवादित्वादाविषयस्यानि सन्तस्य' इत्याद्युदात्तः । पतिशब्दोऽपि 'पातेडेति:' इति उतिप्रत्ययान्तः प्रत्ययस्वरेण । पारस्करादित्वात्सुट् । बृहस्पतिमिति । 'वर्तमाने पृषन्महत्-' इति श्रतिप्रत्ययान्तत्वादन्तोदात्तोऽप्यत्रायुदात्तो निपात्यते । 'तद्बृहतोः करपत्योः -' इति सुट्तलोपौ । शार्ङ्गरवादित्वादायुदात्त इति । शार्ङ्गरवादित्वादित्वात् कौनि मन्त्रित 'मिति निषेधो न स्यात् तस्मादामन्तेनैव समासः, तत्र भाष्यप्रामाण्यादयं स्वरो भवत्येव । एवं प्रपचतिदेश्यादावपि । अत्र च नोपपदसमासोऽतिङित्युक्तेः, किं तु 'उदात्तवते'ति वार्तिकेन । तत्र तिङेत्यस्य तिङ्घटितेनेत्यर्थः । तदुदाहरणानाच भाष्ये – सहेति योगविभागेनापि साधनात्तत्पुरुषत्वतदभावौ । वैकल्पिकत्वञ्च लक्ष्यानुसारेणेति न 'तिङि चोदात्तवती'ति सूत्रस्थ माध्यविरोधः । अन्य इति । अत्रापि भाष्यविरोध एवाऽरुचिबीजम् । तिङन्तसमासेष्यप्ययं स्वरो भवत्येव । यथा - 'यो जातः पर्यभूष' दित्यादौ । 'नित्यं क्रीडे 'त्यत्र नित्यमिति योगं विभज्य लक्ष्यानुरोधेन क्वचित्तत्पुरुषत्वाङ्गीकारात् । अत एवोदात्तवतेत्यस्य भाष्ये द्विः पाठः । अत्र यच्छन्दयोगात्तिङन्तस्याऽनिघातः । 'उदात्तवता गतिमता चे 'ति तिङन्तस्य गतिसमासः । अव्ययपूर्वपदप्रकृतिखरं बाधित्वोत्तरपदप्रकृतिस्वरेणाऽट्स्वरः शिष्यते । यत्र तु तिङन्तोत्तरपदकेऽन्तोदात्तत्वमिष्यते यथा 'यत्रा नरो देवयन्तो युगानि वितन्वते' इत्यादौ, तत्र त्रिचकादित्वात्कल्प्यम् । श्रत्यायाहीत्यादौ तु यच्छन्दयोगाऽभावात् 'तिङतिङ' इति निघाते श्राङा 'सहे'ति योगविभागात्समासः । उत्तरपदस्योदात्तशून्यत्वात्, गति - शून्यत्वाच्च गतिप्रयुक्तसमा साऽभावात्तत्पुरुषत्वाऽभावेन नाऽयं स्वरः । उदात्तस्वरितयोगिन एव प्रकृतिभावविधानादस्य तच्छून्यतयाऽपि नाऽयं स्वरः । एवञ्चाऽव्ययपूर्वपदप्रतिखरेणाऽऽङुदात्तः । ततोऽतिशब्देन गतिसमासे अनेनोत्तरपदप्रकृतिस्वरे - स्वर एव शिष्यते इति दिक् । परे तु कृद्मणाभावे प्रभवनमित्यादौ क्रियाया विशेष्यत्वात्तत्रैव स्यान्न तु प्रणीरिव्यादाविति कृद्ब्रहणं कर्त्तव्यम् । तदुक्तं भाष्ये'अधिकार्थं कृद्प्रहणं कर्तव्य' मिति । 'प्रपचतितरामित्यादौ त्वव्ययपूर्वपदप्रकृतिस्वरात्परत्वेन 'तिङि चोदात्तवतीत्यस्य प्रवृत्तावेतत्प्रवृत्तौ न फलम् । एतत्प्रवृत्त्यापि तत्राऽन्तोदासमेव लभ्यते । 'तिङि चोदात्तवती 'ति सूत्रे एतदर्थमेव भाष्ये तिङ्ङ्ग्रहणं प्रत्याख्यातम् । अतिप्रसङ्गस्तु प्राग्वदेव परिहार्यः । अत एवाऽत्र सूत्रे 'तस्मात्कृद्ग्रहणं न कर्तव्य'मिति नोक्तमित्याहुः । वनस्पतिमिति । वनशब्दो नब्विषयत्वादायुदात्तः, पतिशब्दश्च प्रत्ययस्वरेण तथा । निपात्यत इति । अन्यथा अतिप्रत्ययान्तत्वादन्तो