________________
५७६ ]
सिद्धान्तकौमुदी ।
[ समासस्वर
तरबाद्यन्तेन समासे कृते श्राम् । तत्र सतिशिष्टत्वादाम्स्वरो भवतीत्येके । प्रपचतिदेश्यार्थं तु कृद्ग्रहणमित्यन्ये । ३८७४ उभे वनस्पत्यादिषु युगपत् ।
दोषाभाव इति केचिदाचार्या व्याचक्षते इति । प्रपचतिदेश्यार्थं त्विति । आदिशब्देन प्रपचतिकल्पं प्रपचतिदेशीयः प्रपचतिरूपमित्येतेषां त्रयाणां ग्रहणम् । प्रपचतिदेश्यादौ प्रर्थः प्रयोजनं यस्य तत्तथोक्तम् । अयमभिप्रायः- न विस्पष्टार्थं कृदुप्रहणम्, अपितु प्रपचतिदेश्यादौ यत्र सति शिष्टं स्वरान्तरं नास्ति तत्रापि खरो मा भूत्तदव्ययपूर्वपदप्रकृतिस्वर एव यथा स्यादित्येवं सप्रयोजनमाहुः । अत्र हरदत्तःइदं तु वक्तव्यम् । प्रपचतितरामित्यादौ तरबन्तेन समासे पश्चादाम् भवन्प्रत्यय ग्रहणपरिभाषया पचतितरस्यैव घान्तत्वात्तत एव स्यात् । तत्र को दोषः । सोपसर्गस्य घान्तस्यैकपद्याभावादाम् । प्रपचतितरां देवदत्तेत्यादावाम एकान्तरमामन्त्रितमनन्तिक इत्येष विधिर्न स्यात् शेषनिघातश्च प्रशब्दस्य न स्याद्भिन्नपदत्वात् । तस्मात्प्रशब्द स्यामन्तेन समासोऽङ्गीकर्तव्यो न तरबन्तेन । तत्र समासत्वात्समुदायस्य प्रातिपदिकत्वे विभक्तावैकपद्यं भवति, खरे तु दोषप्रसङ्गात्कृद्प्रणमपि वक्तव्यमिति भाष्ये स्थितम् । प्रपचतिदेश्यादौ का गतिरिति न विद्मः । उभे । वनस्पतिमिति । वनशब्दो 'नव्धिकार सप्तमीनिर्दिष्टस्यैवोपदत्वाच्च केवलधातोः प्रयोगाऽभावाच्च कृदन्तक्रियापदाक्षेपे सिद्धे इत्यर्थः । तथा च वार्तिकं - 'गत्यादिभ्यः प्रकृतिस्वरत्वं कृद्ग्रह्णानर्थक्यमन्यस्योतरपदस्याभावादिति । न च 'यत्क्रियायुक्ताः प्रादयः' इत्यत्र यस्य क्रियेति षष्ठीसमासे यस्य धातोर्वाच्या किवेत्यर्थात्तं प्रतीति वाक्यशेषेऽपि तच्छब्देन धातोरेव प्रहणे, प्रत्यासत्त्या तस्यैवोत्तरपदत्वे प्रणीरित्यादावेव स्वरः स्यात् न तु प्रणायक इत्यादाविति कृन्मात्रसङ्ग्रहाय तदिति वाच्यम्, 'यत्क्रिय'त्यत्र कर्मधारयस्यैव स्वीकारण 'तं प्रतीत्यत्र वाक्यशेषे निरूपितरीत्या तस्या एव परामर्शेन क्रियारूपमर्थं प्रत्येव गतित्वात् । तत्र गतिकारकोपपदेषु सर्वत्र विशेष्यभूतकियाया वाचकमुत्तरपदं न सम्भवतीति सामर्थ्यात्साधनादिविशेषण क्रियावाचकमुत्तरपदं गृत्यते इति सर्वत्रेप्रसिद्धिः । न च प्रभवनमित्यादौ केवलक्रियावाच्युत्तरपदसत्त्वेन सामर्थ्यं दुरुपादम्, लिङ्गाद्यनन्वयि - साध्यरूपार्थस्यैव क्रियाशब्देन प्रहणात् । पदमत्र शक्तमेव, न परिभाषितम् । तेन कृता सुवुत्पत्तेः प्राक् समासेऽपि न क्षतिः । एवञ्च प्रशब्दस्य पचतितरामित्याद्यामन्तेन समासेऽयं स्वरो भवत्येवेति भाष्ये स्पष्टं सूक्ष्मधियम् । एके इति । अत्राऽरुचित्रीजन्तु तथासति प्रपचतितरशब्दस्य घान्तत्वाऽभावात्तत श्रामभावे एकदेशादामि तदन्तत्वेन पचतितरामित्यस्यैव प्रातिपदिकत्वे, तत एव मुपि तदन्तस्यैकपदत्वाऽभावात्प्रशब्दस्वरः पृथक् श्रूयेत । किंचाऽऽम्प्रपचतितरां देवदत्तेत्यत्र 'आम एकान्तरमा