SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सुबा सुबोधिनी-शेखरसाहता।। [५७५ देवस्य कारकः । शेषलक्षणा षष्ठी। कृद्ग्रहणं स्पष्टार्थम् । प्रपचतितरामित्यत्र 'कुगति-' इति समासः । लित्स्वरेण पूर्वप्रत्ययादुदात्तम् । नृवाहसेति । नेन्वहतीति विप्रहः । 'वसणित' इत्यतो णिदित्यनुवृत्तेरसुनो णित्त्वादुपधावृद्धिः । नित्स्वरेणोत्तर. पदमायुदात्तम् । इध्मप्रव्रश्चन इति । प्रवृश्च्यते येनेति करणे ल्युट् । कर्मषष्ट्यन्तेन इध्मशब्देन समासः । अत्र गतिप्रयुक्त कृत्स्वरे कृते कारकप्रयुक्तः कृत्स्वरः । उच्चैःकारमिति । 'अव्यये यथाभिप्रेत-' इति णमुल । तत्र हि उच्चरित्युपपदम् । ईषत्कार इति । 'ईषद्दःसुषु कृच्छा-' इति खल । उभयथापि लित्स्वरः । शेषलक्षणा षष्ठीति । न कमलक्षणा । तथा सति कारकमेव देवदत्तः स्यात् । 'तृजकाभ्यां कर्तरि' इति समासप्रतिषेधश्च स्यात् । अत्र कृग्रहणं किमर्थम् । निर्गतः कौशाम्म्या निष्कौशाम्बिरित्यत्र मा भूत् । नैतदस्ति । यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गन्युपसर्गसंज्ञा भवन्ति । नच कौशाम्बीशब्दं प्रति क्रियायोगः, कारकं च क्रियायामेव संभवति । उपपदमपि धात्वधिकारे सप्तमीनिर्दिष्टं प्रत्ययनिमित्तमुच्यते । तदेवं गशदिभिरपि कियावाच्युत्तरपदमाक्षिप्यते, धातो-न कियावाचित्वम्, तस्माच्च द्वये प्रत्ययाः कृतस्तिङश्च । तत्र तिङन्तेन समासाभावात्कृदन्तमेव संभवति । अनुव्यचलदित्यत्र तु न गतित्वनिबन्धनः समासः, किं तर्हि सुबन्तेन योगविभागा• समासः तस्मानार्थः कृद्ग्रहणेनेत्यत आह कृदग्रहणं स्पष्टार्थमिति । य एवं प्रतिवक्तुमसमर्थस्तं प्रति विस्पष्टार्थ क्रियत इत्यर्थः। ननु विस्पष्टार्थमपि क्रियमाणे कग्रहणे आमन्ते न प्राप्नोति प्रपचतितरामिति । ततश्च समासस्वरं बाधित्वाऽव्ययस्वर एव स्यादत अाह प्रपचतितरामित्यादि । इत्येक इत्यस्य कृग्रहणं विस्प. ष्टार्थमित्यादिना कृत्स्नेन संबन्धः। तदयमर्थ:-कृग्रहणं विस्पष्टार्थम् । श्रामन्ते च मायुदात्तम् । नृवाहसेति । नृन्वहत इति विप्रहः । 'वहिधा' इत्यादिना असुन् , 'वर्णिदिति सूत्रारिणदित्यनुवृत्तेरसुनो णित्त्वादुपधाद्धिः । नित्स्वरेणोत्तरपदमाधु. दात्तम् । इध्मप्रवचन इति । करणे ल्युट् , कर्मषष्ठया समासः । प्रव्रश्चने गतिप्रयुक्त कृत्स्वरे कृते, इध्मशब्देन समासे कारकप्रयुक्तः कृत्स्वरः। व्रश्चनो लित्स्वरे. णायुदात्तः । उच्चैःकारमिति । णमुल्विधावुच्चरित्युपपदम् । ईषत्कर इति । 'ईषदुःसुषु-' इति खल् । शेषे षष्ठीति । तदन्तेन समासः कार्य इत्यर्थः । इदं गत्यंशे अव्ययपूर्वपदप्रकृतिस्वरस्य बाधकम् । कृद्ग्रहणप्रत्याख्याने 'अन्वविन्दते'त्यादौ परत्वात् तिङि चेति निघाते कृते यद्यपीदं सावकाशम् , तथाऽपि परत्वाद्बाधक बोध्यम् । कारकोपपदांऽशे तु समासान्तोदात्तत्वापवादः । कृदग्रहणं स्पष्टार्थमिति । क्रियायोगे गतिसज्ञाविधानात् , क्रियानिरूपितस्यैव कारकत्वाच्च, धात्व
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy