________________
५७४ ] सिद्धान्तकौमुदी। [समासस्वरभगालम् । (६-२-१३७) भगालवाच्युत्तरपदं तत्पुरुषे प्रकृत्या । कुम्भी. भगालम् । कुम्भीनदाखम् । कुम्भीपालम् । मध्योदात्ता एते । प्रकृस्येत्यधिकृतम् । 'अन्तः' (३८७७) इति यावत् । ३८७२ शितेर्नित्याऽबह्वज्बहुव्रीहावमसत् । (६-२-१३८) शिते परं नित्याबकं प्रकृत्या। शितिपादः। शिस्यंसः। पादशब्दो वृषादित्वादाधुदात्तः । अंसशब्दः प्रत्ययस्य निस्वात् । शितेः किम्दर्शनीयपादः । प्रभसस्किम्-शितिभसत् । शितिराद्युदात्तः । पूर्वपदप्रकृति. स्वरापवादोऽयं योगः । ३८७३ गतिकारकोपपदात्कृत् । (६-२-१३६ ) एभ्यः कृदन्तं प्रकृतिस्वरं स्यात्तरपुरुषे । प्रकारकः । प्रहरणम् । शोण पृष्णू नृवाहसा । इध्मप्रवचनः । उपपदात् । उच्चैःकारम् । ईषस्करः । गतीति किम्ग्रहण तदाह भगालवाचीति । अत्र व्याख्यानमेव शरणम् । मध्योदात्ता एते इति । 'लघावन्ते द्वयोश्च' इति सूत्रात् । शितेः। शितेः परं नित्याबह्वच्कं भसत्शब्दवर्जितं बहुव्रीहौ प्रकृतिस्वरं स्यात् । अंसशब्द इति । अमेः सन् अंसः। दर्शनीयपाद इति । 'बहुबोहौ प्रकृया' इति पूर्वपदप्रकृतिस्वरः। दर्शनीयशब्दोऽनीयप्रत्ययान्तः । 'उोत्तमं रिति' इन्युपोत्तमोदात्तः । शितिरायदात्त इति । 'वर्णानां तणतिनितान्तानाम्' इति सूत्रेण । गतिका । 'शितनित्याबह्वच्' इत्यतो बहुव्रीहिप्रहणं नानुवर्ततेऽखरितत्वात् । किं तु 'तत्पुरुषे शालायाम्' इत्यतो व्यवहितमपि तत्पुरुषग्रहणमनुवर्तते । तदाह तत्पुरुषे इति । प्रकारक इति । दुरुपपादत्वात् । वनविशेषणेन च भाजनवाचिनः, 'दुर्गाकुण्ड'मित्यादी विशिष्टाधारजलवाचिनश्च प्रसिद्धस्य निवृत्तिरित्याहुः । उक्तञ्च 'कुण्डायुदात्तत्वे तत्समुदायग्रहण'. मिति । अत्र भाष्ये तच्छन्देन पूर्वपदार्थः । अपरे तु तत्समुदायेत्यस्य वनसमुदायेत्यर्थः । तेन दर्भवनसमुदायो दर्भकुण्डशब्देनोच्यत इत्याहुः । मृत्कुण्डमिति । मृद्भाजनविशेष इत्यर्थः । भगालवाचीति । अत्र च व्याख्यानमेव शरणम् । मध्योदात्ता इति । 'लघावन्ते-' इत्यनेनेति भावः। शितेनित्या। शितेः परं भसच्छन्दभिन्नं यन्नित्यमबह्वच् उत्तरपदन्तद्बहुव्रीही प्रकृतिस्वरमित्यर्थः । दर्शनीयपाद इति । दर्शनीयशब्दो ["उपोत्तम] रिती'त्युपोत्तमोदात्तः । नित्याऽबह्वच्किम् ? शितिललाटः । नित्येति किम् ? शितिककुत् । 'ककुदस्यावस्थायां लोपः', अन्यत्र शितिककुद इत्येवेति नायं नित्याऽबहच्कः । गतिकारकोप । इह 'शितेनित्याऽ. बह्वज्बहुव्रीहावभस'दिति पूर्वसूत्रस्थबहुव्रीहिग्रहणं नानुवर्तते, अस्वरितत्वात् । किं तु व्यवहितमपि 'तत्पुरुषे शालायां नपुंसके' इति सूत्रस्थन्तत्पुरुषप्रहणमनुवर्तते । तदाह तत्पुरुषे इति । प्रकारक इति । 'कुगतीति समासः । लिस्वरेणोत्तरपद