________________
प्रकरणम् ] सुबोधिनी-शेखरसहिता [५७३ ग्रहणम् । प्राचार्यपुत्रः । उपाध्यायपुत्रः। शाकटायनपुत्रः । राजपुत्रः । ईश्वर पुत्रः । नन्दपुत्रः । ऋस्विक्पुत्रः । याजकपुत्रः । होतुः पुत्रः । संयुक्ताः संब. धिनः । श्यालपुत्रः। ज्ञातयो मातापितृपंबन्धेन बान्धवाः । ज्ञातिपुत्रः । भ्रातुपुत्रः । ३८६८ चूर्णादीन्यप्राणिषष्ठयाः । (६-२-१३४) प्राणि. भिनषष्ठयन्तात्पराग्याथुदात्तानि तत्पुरुषे । मुद्गचूर्णम् । अप्रेति किम् -मरस्य. चूर्णम् । ३८६६ षट् च काराडादीनि । (६-२-१३५) अप्राणिषष्ठया मायुदात्तानि । दर्भकाण्डम् । दर्भचीरम् । तिलपललम् । मुद्रसूपः । मूलक शाकम् । नदीकूलम् । षट् किम्-राजसूदः । अप्रेति किम्-दत्तकाण्डम् । ३८७० कुण्डं वनम् । ( ३-२-१३६) कुण्डमायुदात्तं वनवाचिनि तत्पुरुषे। दर्भकुण्डम् । कुण्डशब्दोऽत्र सादृश्ये । वने किम्-मृत्कुण्डम् । ३८७१ प्रकृत्या प्रहणमाचार्यादिभिः प्रत्येकं संबध्यते। होतुः पुत्र इति । 'ऋतो विद्यायोनिसंबन्धेभ्यः' इति षष्ठया अलुक् । भ्रातुष्पुत्र इति। कस्कादिपाठात्पत्वम् । वर्णेति । वर्ण चूर्ण संकोचे पचायच् । षट् च । पाणिभ्यः परा या षष्ठी तदन्तात्पराणि षट् काण्डादीन्यायुदात्तानि स्युः । चेल खेट कटुक काण्डमिति काण्डशब्दादारभ्य कूल सूद स्थल कीः संज्ञायाभिति । कूलान्तानि, काण्ड चीर पलल सूप शाक कूल एतानि काण्डादीनि, तत्र काण्डं गर्हायामित्युक्तमगायामपि भवतीति । 'चीरमुपमानम्' इत्युक्तमनुपमानेऽपि भवति 'पललसूपशाकं मिले इत्युक्तममिश्रेऽपि भवति कूलं संज्ञायामित्युक्तमसंज्ञा यामपि भवति । अप्रेति किमिति । अप्राणिषट्या इति किमर्थ. मित्यर्थः । मृत्कुण्डमिति । मृद्भाजनविशेष इत्यर्थः । प्रकृत्या । भगालमित्यर्थ. सूत्रादेव पुंल्लिजशब्दलाभे सिद्धे बहुवचनं स्पष्टार्थम् । तद्विशेषाणाश्चेति । चात्स्व. रूपस्यापि । सम्बन्धिन इति । स्त्रीसम्बन्धिनः श्यालादय इत्यर्थः । भ्रातु:पुत्र इति । 'ऋतो विद्यायोनी'ति षष्ठया अलुक् । 'भ्रातृपुत्र' इति तु क्वाचित्कोऽपपाठः । एवं होतुःपुत्रेऽपि । एषु पुत्रस्वरप्रतिषेधे समासान्तोदात्तत्वम् । चूर्णादीन्य । चूर्ण, करिव, करिय, शाकिन, शाकट, द्राक्षा, तृस्त, कुन्दुम, दलप, चमसी, चक्कन, चोल इति चूर्णादिः। षट्च काण्डा । काण्डस्याऽगर्थिश्चीरस्याऽनुपमानार्थम् , पललसूपशाकानाममिश्रार्थम् , कूलस्याऽसज्ञार्थम् । 'चेलखेटे'ति सूत्रस्थकाण्डशब्दमादाय 'कूलसूदेति सूत्रस्थकूलपर्यन्ताः षटकाण्डादयः । कुण्ड. शब्दोऽत्रेति । सादृश्येन वने वत्तते इत्यर्थः । भाजनविशेषवाचिनः कुण्डशब्दस्य विना सादृश्येन वने वृत्त्यसम्भवादित्याशयः। वनशब्दश्च समूहवाची, प्रसिद्धत्वात् । नोदकवाची । अन्ये तु समूहरूपवनेऽपि मुख्य एव कुण्डशब्दः, पूर्वमते सादृश्यस्य