SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सुबोधिनी - शेखर सहिता | [ ५७१ ( ६-२-१२३ ) शालाशब्दान्ते तत्पुरुषे नपुंसकलिङ्गे उत्तरपदमायुदात्तम् । ब्राह्मणशालम् । तत्पुरुषे किम्-दृढशालं ब्राह्मण कुलम् । शालायां किम्-ब्राह्मणसेनम् । नपुंसके किम् - ब्राह्मणशाला । ३८५८ कन्था च । ( ६-२- १२४ ) तत्पुरुषे नपुंसकलिङ्गे कन्थाशब्द उत्तरपदमायुदात्तम् । सौशमिकन्थम् । श्राह्वरकन्थम् । नपुंसके किम् - दाक्षिकन्था । ३८५६ श्रादिश्चिहणादीनाम् । ( ६२-१२५ ) कन्थान्ते तत्पुरुषे नपुंसकलिङ्गे चिहणादीनामादिरुदात्तः । चिहणकन्थम् । मन्दुरकन्थम् । आदिरिति वर्तमाने पुनर्ग्रहणं पूर्वपदस्यायुदात्तार्थम् । ३८६० चेलखेट कटुककाडं गर्हायाम् । ( ६-२-१२६ ) चेलादीन्युत्तरपदान्याद्युदात्तानि । पुत्रचेलम् । नगरखेटम् । दधिकटुकम् । प्रजाकाण्डम् । चेलादिसाerयेन पुत्रादीनां गर्दा व्याघ्रादित्वात्समासः । गर्हायां किम् - परमचेलम् । ३८६१ चीरमुपमानम् । ( ६-२-१२७) वस्त्रं चीरमिव वस्त्रचीरम् । द्विगोर्नित्यम्' इति लुक् । ब्राह्मणशालमिति । 'विभाषा सेनासुराच्छाया-' इति नपुंसकता । दृढशालमिति । बहुत्री हरयं तत्र पूर्व कृतिस्वर एव भवति पूर्वपदं च निष्ठान्तत्वादन्तोदात्तम् । ननु चात्र लक्षणप्रतिपदोक्त परिभाषयेत्र न भविष्यति । सत्यम् । उत्तरार्थमावश्यकं तत्पुरुषमहणमिद्वैव क्रियते परिभाषाऽनाश्रयणाय । सौशमिकन्थमिति । शोभनः शमोऽस्य सुशमस्तस्यापत्यं सौशमिस्तस्य कन्या सौशमिकन्थम् । ‘संज्ञायां कन्थोशीनरेषु' इति नपुंसकत्वम् । श्राह्नरकन्थमिति । श्रङ्पूर्वाद् ह्वयतेः 'आतश्चोपसर्गे' इति कः । श्रदिश्विहरणादीनाम् । चिनोतेः किप् । चित् । हन्तेः पचायच् हनः । चिहण इति निपातनात्तलोपो णत्वं च । मल मल्ल धारणे आभ्यां रः निपातनाल्लस्य दत्वम् । मन्दरः श्रदिरिति वर्तमान इति पूर्वत्र ह्यादिप्रहणमुत्तरपदाभिसंबद्धम् । इह तु चिणादीनां पूर्वपदानामायुदात्तत्वमिष्यते तदर्थं पुनरादिप्रहं कर्तव्यम् । पुत्रचेलमिति । चेलं वस्त्रं तद्वत्तच्छमियर्थः । मगरखेदमिति । खमिति तृणनाम तद्वदुर्बलम् । दधिकटुकमिति । कटु तस्वादु तद्वत् गतवादु । प्रजाकाण्डमिति । काण्डमिति शरनाम | स यथा सत्वरपीडाकरः एवंभूतम् । व्याघ्रादिभिरिति समासः । चीर । उपमानवाचिचीरभवति । दृढशालमिति । 'विभाषा सेने'ति प्रतिपदोक्लनपुंसकत्वग्रहणादेवाऽस्य व्शवृत्तौ तत्पुरुषप्रहणमुत्तरार्थमिति हरदत्तः । सौशमिकन्थमिति । 'सञ्ज्ञायां कन्थे 'ति क्लीत्वम् । चिहणकथमिति । चिणस्य कन्थेति तत्पुरुषः । चिहण, मडर, मड्डर, बैतुल, पटत्क, बैडालिक, बैडालिकणि, कुक्कुट, चिक्कण, चिक्कण । पुत्रचेलमिति । चेलवतुच्छ इत्यर्थः । खेटं तृणम् । कटुकम् - अस्वादु ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy