________________
५७० ]
सिद्धान्तकौमुदी ।
[ समासस्वर
७
1
१२० ) सोः परौ बहुव्रीहौ छन्दस्याद्यदात्तौ । सुवीरेण रयि । सु॒वीर्य॑स्य॒ गोम॑तः । वी॒र्य॑शब्दो यत्प्रत्ययान्तः । तन्त्र 'यतोऽनावः ' ( ३७०१ ) इत्याद्युदात्तस्वं नेति वीर्यग्रहणं ज्ञापकम् । तत्र हि सति पूर्वेणैव सिद्धं स्यात् । ३८५५ कूलतीरतूलमूलशालाऽक्षसममव्ययीभावे । ( ६-२-१२१ ) उपकूलम् । उपवीरम् । उपतूलम् । उपमूलम् । उपशालम् । उपाक्षम् । सुषमम् । निःषमम् । तिष्ठद्गुप्रभृतिब्वते । कूलादिग्रहणं किम् - उपकुम्भम् । अव्ययीभावे किम् - परमकूलम् । ३८५६ कंसमन्थशूर्पपाय्यकाण्डं द्विगौ । ( ६-२-१२२ ) द्विकंसः । द्विमन्थः । द्विशूः । द्विपाय्यम् | द्विकाण्डम । द्विगौ किम्- परमकंसः । ३८५७ तत्पुरुषे शालायां नपुंसके । चुरादिस्तत्र पचाद्यचि वीरः । 'अचो यत्' वीरेषु साधुरिति वा यत् । वीर्यः तत्रेत्यादि । कथं पुनरेतज्ज्ञापकमित्याह तत्र हि सतीति । कूलतीर इति । एतान्युत्तरपदान्यायुदात्तानि स्युरव्ययीभावे । सुषममित्यादौ 'सुविनिर्दुर्भ्यः सुपिसूतिसमाः' इति षत्वम् । तस्यासिद्धत्वात्समशब्द एवायम्। तिष्ठद्गुप्रभृतिष्वेत इति । तेनाव्ययीभावसंज्ञा । कंसमन्थ । एतान्युत्तरपदानि द्विगावाद्युदात्तानि स्युः । द्विकंस इति । द्वाभ्यां कंसाभ्यां क्रीत इति तद्धितार्थे समासः । 'कंसाट्टिठन्' इति टिठन् तस्य 'अध्यर्धपूर्व -' इति लुक् । द्विमन्धा इति । 'आदगोपुच्छ-' इत्यादिना ठक् । शेषं पूर्ववत् । द्विशूर्प इति । 'शूदजन्यतरस्याम् । द्विपाय्यमिति । 'पाय्यसान्नाय्य -' इत्यादिना पाय्यशब्दः परिमाणवाची निपातितः । तत्र 'प्राग्वहतेष्ठ क्' द्विकाण्डमिति । द्वे काण्डे प्रमाणमस्य ' प्रमाणे द्वयसच् -' इति मात्रच् ' प्रमाणे लो वीरो रक्प्रत्ययान्तः । श्राद्युदात्तत्वं नेति । छन्दसि नेति ज्ञाप्यत इत्यर्थः । तेन भाषायां भवत्येव । तथा च छन्दसि वीर्यशब्दस्तित्स्वरेणान्तस्वरित इति भावः । 'बिल्वभक्ष्यवीर्याणि छन्दसी'ति फिट्सूत्रन्त्वस्यैवानुवादकमिति बोद्धयम् । कूलतीर । कूलादीन्युत्तरपदान्यायुदात्तानि स्युः । सुत्रममिति । श्रधिसममित्यत्र तु न, प्रतिपदोक्कृतिष्ठद्गुसमासघटकस्यैव प्रहणादिति कश्चित् । उत्तरपदानीति किम् ? भूमेः समत्वं समभूमिः । तिष्ठद्ग्वादिः । समासस्वरेणाऽन्तोदात्तः । श्रत्रात शब्दोऽकारान्त एव । प्रत्यक्षमित्यादौ टचश्चित्त्वादन्तोदात्तत्वमेवेति कश्चित् । कंसमन्थ । एतान्युत्तरपदानि द्विगावाद्युदात्तानीत्यर्थः । द्विकंसादौ । क्रमेण टिठन्-ठक्-अञ्ठनाम् 'अध्यर्द्ध'ति लुक् । पाय्यं परिमाणविशेषः । द्विकाण्डमिति । अत्र 'प्रमाणो लोद्विगोरिति मात्रचो लुक् । कंसादीनि किम् ? पचमूनी । तत्पुरुषे शाला । ' छात्रिशाल 'मित्यादौ ' छात्र्यादयः शालाया 'मित्यतः परत्वादयमेव स्वरो
I