________________
प्रकरणम् ] सुबोधिनी शेखरसहिता। [५६६ सुकर्माणः सुयुजः । स नो वक्षदनिमानः सुब्रह्मा। शिवा पशुभ्यः सुमनाः सुवर्चा': सुपेशसस्करति । सोः किम्-कृतकर्मा । मनसी किम्-सुराजा । अलोमोषसी किम्-सुलोमा । सूषाः । कपि तु परस्वात् 'कपि पूर्वम्' (३६०७) इति भवति । सुकर्मकः । सुस्रोतस्कः । ३८५२ क्रत्वादयश्च । (६-२-११८) सोः परे आद्युदात्ताः स्युः। साम्राज्याय सुकतुः । सुप्रतीकः सुहन्यः । सुप्रर्तिमनेहसम् । ३८५३ आद्यदा द्वयच् छन्दसि । (६-२-११६ ) यदायुदात्तं यच् तत्सोरुत्तरं बहुव्रीहावाद्युदात्तम् । प्रधा स्वश्वाः । सुरथा प्राति. धिग्वे । निरस्वरेणाश्वरथावायदात्तौ । प्राद्यदात्तं किम्-या सुबाहुः । द्वयच् किम्सुगुरसस्सुहिरण्यः । हिरण्यशग्दव्यच । ३८५४ वीरवीयाँ च । (६-२मन् च अस् च मनसी । सुकर्माण इत्यादि । यद्यपि आयुदातं 'यचश्छन्दसि' इत्यनेन सिद्धमिदं तथापि सुप्रथिमेत्यादि बह्वजर्थमच्छन्दोथं च सूत्रमिति बोध्यम् । सुप्रथिमेत्यत्र पृयोर्भाव इति पृथ्वादिभ्य इमनिच् । 'र ऋतो हलादेर्ल घोः' इति रादेशः । सुराजेति राजशब्दः 'कनिन्युषि-' इति कनिन्प्रत्ययान्तः। लुनाते. मनिन् लोम । उष दाहे । 'मिथुनेऽसिरिति वर्तमाने उषः कित् । उषः । कपि त्विति । अस्यावकाशः सुकर्मा । 'कपि पूर्वमित्यस्यावकाशः । अपवर कः । एवं स्थिते विप्रतिषेधः । श्रायुदात्तम् । 'नसुभ्याम्' इत्यस्यापवादः । 'अशूषि लटिकणिखटि' इति कन्नतोऽश्वशब्द:-'हनिकुषिनोरमिकाशिभ्यः क्यन्' इति क्थन्नन्तो रथशब्दस्तमाह नित्स्वरेणेति । सुवाहुरिति । 'अर्जिशिकम्यमि. पशिबाध' इति प्रत्ययस्वरेणान्तोदात्तः । सुहिरण्य इति । 'हर्यतेः कन्यन् हिर च' इति कन्न्यन्तो हिरण्यशब्द आधुदात्तस्त्र्यच् । वीरवीयो । वीरविक्रान्ती एवमुत्तरसूत्रत्रयमपि तदपवाद एव । मन् च अस् च-मनसी। सुकर्माण इति । यद्यपि 'आधुदात्तं यच्छन्दसी त्यनेनैव सिद्धमिदन्तथापि 'अनिनस्मन्ग्रहणानीति न्यायेन सुप्रथिमेत्यादिबहजयमच्छन्दोऽर्थश्चेदम् । 'सुस्र'दित्यत्रापि स्वरे कर्तव्ये बहि. रजत्वात्पूर्वत्राऽसिद्ध वाहा दत्वस्याऽसिद्धत्वनाऽसन्तत्वादयं स्वरो भवत्येव । यत्तु 'वस्वा. दिषु दत्वं सिद्धमिति नत्तु 'सौ दीर्घत्वे' इति वाक्यशेषाद्दीर्घविधावेव । 'सुलोमे' त्यादौ 'नसुभ्यामिति भवति । क्रत्वादयश्च । ऋतु, दृशीक, प्रतीक प्रतूर्ति, हृव्य, भव्य, भग-इति क्रत्वादयः। आधुदात्तं द्यच् । बहुव्रीहावाद्युदात्तमिति । श्राद्युदात्तमेवेत्यर्थः । सोः किम् ? अरथः । सुवाहुरिति। कुप्रत्ययान्तो बाहुशब्दोऽन्तोदात्तः । हिरण्यशब्द इति । कन्यमन्तोऽयम् । वीरवीयौं ।