________________
५६८] सिद्धान्तकौमुदी। [समासस्वर(६-२-११४ ) संज्ञोपम्ययोबहुव्रीही। शितिकण्ठः । काण्डपृष्ठः । सुग्रीवः । नाडीजङ्कः । औपम्ये । खरकण्ठः । गोपृष्ठः। अश्वग्रीवः । गोजङ्घः । ३८४६ शृङ्गमवस्थायां च । (६-२-११५) शाशब्दोऽवस्थायां संज्ञौपम्ययोश्चाद्यु. दातो बहुव्रीहो । उद्तशृङ्गः । ब्यङ्गुलशृङ्गः। अत्र शृङ्गोद्गमनादिकृतो गवादेवयोविशेषोऽवस्था । संज्ञायाम् । ऋष्यशृङ्गः । उपमायाम् । मेषतः। अवस्थेति किम्-स्थूल शृङ्गः । ३८५० नमो जरमरमित्रमृताः। (६-२-११६) नजः परा एते प्रायुदात्ता बहुव्रीही। न मे जरा अजरम् । अमरम् । अमित्रमर्दय । श्रवो देवेष्वमृतम् । नमः किम्-ब्राह्मणमित्रः। जेति किम्-अशत्रुः । ३८५१ सोर्मनसी अलोमोषसी । (६-२-११७ ) सोः परं लोमोषसी वर्जयित्वा मनन्तमसन्तं चायुदात्तं स्यात् । 'न[सुभ्याम्' ( ३६०६) इत्यस्यापवादः।
त्वम् । सुग्रीव इत्यत्र परत्वाद् 'नञ्सुभ्याम्' इत्यन्तोदात्तत्वेन भाव्यम् । अस्य तु दशग्रीवादिरवकाशः । यदि तु नेष्यते तर्हि चकारोऽस्यैव विवेः समुच्चयार्थ इति व्याख्येयम् । नाडीजङ्घ इति । नाडयाकारे जो यस्य स नाडीजङ्घः । नमो जर । 'नञ्सुभ्याम्' इत्यस्यापवादः जरणं जरः 'ऋदोरप' । मरणं मरः । अमरम् । अस्मादेव निपातनादप् । जिमिदा स्नेहने 'अमिचिमिदिशसिभ्यः कत्रः' । मृडो नपुंसके भावे वः । सूत्रे तु शब्दपरत्वात्पुंस्त्वम् । जेति किमिति । जरमरमित्रमृतग्रहणं किमर्थमित्यर्थः । अशत्रुरिति । 'नमुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । सोमन ।
दात्तत्वम् । कण्ठपृष्ठ । उत्तरपदान्येतान्यायुदात्तानीत्यर्थः । सुग्रीव इति । यद्यपि परत्वाद् 'नमुभ्याम्', 'उपसर्गात्स्वामित्युवितं तथापि 'नीलग्रीवः' इत्युदाहरणं बोद्धयम् । 'चेन पुनर्विधानादयं परस्यापि बाधक' इति हरदत्तः । विशेषोऽव. स्थेति । 'गम्यते' इति शेषः । श्रौपम्ये-गोवा इत्युदाहरणम् । नञो जर । 'नम्सुभ्या'मित्यस्यापवादः । जरणं जरः। 'ऋदोरप' । मरणं मरः । अत एव निपात. नादप् । मिदेस्त्रः । मित्रम् । मृते 'नपुंसके' इति भावे कः । सूत्रे तु शब्दपरत्वात्पुंस्त्वम् । अमिति । अयं बहुव्रीहावनेन मध्योदात्तः, नस्तत्पुरुषे अव्ययपूर्वपदप्रकृतिस्वरेणायुदात्तः, अमेरित्रचि अन्तोदात्तोऽपि । त्रयोऽपि पुंल्लिकाः, शत्रुवाचकाच । 'भृत्राऽमित्रानमेष्ट्राः पुंसी'त्युक्तेः । न च तत्पुरुषे परवल्लिगातात्तिरिति वाच्यम् , लिङ्गानुशासनसूत्रे एकशेषेणाऽस्यादि निर्देशान्न दोष इत्याहुः । हरदत्तस्तु तत्पुरुषो नपुंसकमेव, आधुदात्तश्चेत्याह । एवञ्च 'अश्नोतेराशुकर्मणी'त्युणादिसूत्रोकमनोरमादिरीत्या ईश्वरीशब्दवदमित्रशब्दोऽपि त्रिप्रकारः। सोर्मनसी। अपवाद इति ।