________________
५४)
सिद्धान्तकौमुदी। [पूर्वकृदन्त(वा २००२) इति वार्तिकम् । किंकरा । यस्करा। तस्करा | हेत्वादी टं बाधित्वा परत्वादच । पुयोगे की । किंकरी। २६३६ कर्मणि भृतौ। (३२-२२) कर्मशब्द उपपदे करोतेष्टः स्याद् भृतौ। कर्मकरो भृतकः । कर्मकारो. ऽन्यः। २६३७ न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु । (३२-२३) एषु कृअष्टो न । हेस्वादिषु प्राप्तः प्रतिषिध्यते । शब्दकार इत्यादि । २६३८ स्तम्बशकृतोरिन् । (३-२-२४) 'नीहिवत्सयोरिति वक्तव्यम्' टित्त्वाद् ङीप्स्यादिति भावः । हेत्वादिषु पूर्वावप्रतिषेधमाश्रिय 'कृषओ हेतु-' इति किङ्क. रादिषु ट एव । किङ्करीति न्यासकारमतं दूषयितुमाह हेत्वादाविति । पूर्वविप्रतिषेधाश्रयणस्य निर्मूलत्वादिति भावः। तर्हि किङ्करीति कथमित्यत आह पुंयोगे डीषिति । कर्मणि भृतौ। कर्मणीत्यनुवृत्तौ पुनः कर्मग्रहणं तु कर्मशब्दस्वरूपग्रहणार्थम् । कर्मकरो भृतक इति । वेतनं गृहीत्वा यः परार्थ कर्म करोति स भृतक इ-युच्यते । न शब्दश्लोक। शब्द, श्लोक, कलह, गाथा, वैर, चाटु, सूत्र, मन्त्र, पद, एषां नवाना द्वन्द्वः । हेत्वादिग्विति । 'ओ हेतुताच्छील्यानुलोम्येषु' इति प्राप्तः टप्रत्ययोऽनेन प्रतिषिध्यते इत्यर्थः । स्तम्बशकृतोरिन् । चित्रकरः क्षेत्रकरः जङ्घाकरः बाहुकर इति । वार्तिकमिति । कैयटहरदत्तादिरीत्योक्तम् । माधवस्तु इष्टिरियमित्याह । पुंयोगे ङीषिति । यत्तु न्यासकृतोक्तम्'हेत्वादिषु पूर्वसूत्रेण ट एव भवति तेन किंकरणशीला किंकरीत्युपपन्नं भवति' इति तन्नादर्तव्यम् । परत्वादचा टचो बाधितत्वात्पूर्वविप्रतिषेधस्य निर्मूलत्वाचेति भावः । वृत्तौ तु पक्षान्तरमप्युक्तम् , अथवा पचादिषु पाठः करिष्यत इति 'दिवाविभा-' इत्यस्मिन् सूत्रे किमादिग्रहणमपनीय पचादिष्वेव 'किंयत्तद्बहुषु कृत्रः' इति पठितव्यं वार्तिकमपीत्थमेव नेयमिति तस्यायमाशयः। अस्मिन्पक्षे कर्मण्यणं बाधित्वा चरितार्थमिदं वचनं हेत्वादिविवक्षायां परत्वाट्टेन बाध्यते तेन पुंयोगं विनापि किंकरी स्यादेव, पुंयोगविवक्षायां तु निर्विवादो ीष् , किंयत्तद्बहुष्वज्वेति प्रक्रियायां विकल्पोक्तिस्त्वाकरविरुद्धत्वात्कर्मण्यणाऽपि पक्षे प्रसङ्गाच्चायुक्कैव । न चाजभावे 'दिवाविभा-' इति टः स्यादिति वाच्यम् , सूत्रे किमादिग्रहणापनयनस्य हरदत्तादिभिरुतत्वात् । अथवा सूत्रे किमाद्यपनयनं मास्त्विति प्रौढिवादेन प्रक्रियाग्रन्थः प्रगृह्य इति स्वीक्रियते । तथा च हेत्वाद्यविवक्षायां किंयत्तदिति वर्तिकेनाच, तद्विवक्षायां तु परत्वाट्ट इति विषयविशेषे व्याख्याभेदात् फलितं विकल्पमाश्रित्य प्रक्रियायामज्वेति प्राचोक्तमिति स्थितस्य गतिः समर्थनीया कर्मणि भृतौ । मृतिवेतनम् ।' कर्मानुवृत्तौ पुनः कर्मः ग्रहणात्स्वरूपपरतत्याह कर्मशब्द इति । स्तम्बकरिरित्यादि । इनो नित्त्वात्