________________
प्रकरणम् ६६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५३ दिबहुनान्दीकिलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्नहर्यत्तद्धनुररुष्षु । (३-२-२१) एषु कृषष्टः स्यादहेस्वादावपि । दिवाकरः । विभा. करः। निशाकरः । कस्कादित्वात्सः । भास्करः । बहुकरः । बहुशब्दस्य वैपु. क्याथ संख्यापेक्षय पृथग्ग्रहणम् । लिपिलिबिशब्दौ पर्यायो । 'संख्या-एककरः। द्विकरः। कस्कादित्वादहस्करः। 'नित्यं समासेऽनुत्तरपदस्थस्य' (स १५६) इति षस्वम् । धनुष्करः । अरुष्करः “किंयत्तबहुषु कृतोऽविधानम् ।' लिपि, लिबि, बलि, भक्ति, कर्तृ, चित्र, क्षेत्र, संख्या, जङ्घा, बाहु, अहर्, यद्, तद्, धनुस्, अरुस् एषां सप्तविंशतद्वन्द्वात्सप्तमी। एष्विति । उपपदेष्विति शेषः। अहे. त्वादिष्वपीति । हेतुताच्छील्यानुलोम्येषु अगम्येष्वपीत्यर्थः । हेत्वादिग्रहणस्य अन. नुवृत्तेरिति भावः । एतेन अहेत्वायर्थमिदं सूत्रमुक्त भवति । अत्र कर्मणीति सुपीति चानुवृत्तं यथायोगमन्वेति । दिवाकर इति । दिवेत्यकारान्तमव्ययमहीत्यर्थे । तस्याधिकरणशक्तिप्रधानस्यापि वृत्तिविषये कर्मत्वं बोध्यम् । दिवा अहनि अर्थात् प्राणिनश्चेष्टायुक्तान् करोतीति वा विग्रहः । विभाकर इति । विभां करोतीति विग्रहः । निशाकर इति । निशां करोतीति विप्रहः । एवं प्रभाकरः। भासः करोति इति विग्रहे 'अतः कृकमि-' इत्यत्रात इति तपरकरणात्सत्वस्याप्राप्तेः 'कुप्वोः-' इति जिह्वा. मूलौयविसर्गावाशङ्कयाह कस्कादित्वादिति । कारकरः, अन्तकरः, आदिकरः इति सिद्धवत्कृत्याह बहुकर इति । ननु संख्याग्रहणेनैव सिद्धे बहुग्रहणं व्यर्थमित्यत आह बहुशब्दस्येति । वैपुल्यवाचिनस्तस्य न संख्याशब्दत्वमिति 'बहुगणवतुडति संरत्या' इत्यत्रोक्तम् । नान्दीकरः किंकर इति सिद्धवत्कृत्याह लिपिलिविशब्दस्येति । तथा च लिपिकरः लिबिकरः क्षेत्रकर इत्यन्तं सिद्धवस्कृत्याह संख्येति । उदाह्रियते इति शेषः । जङ्घाकरः बाहुकर इति सिद्धवत्कृत्य अहस्करशब्द 'कुप्वोः-' इति जिह्वामूलीयविसर्गावाशङ्कयाह कस्कादित्वादिति । नजि जहारुत्पन्ने अहनशब्दे हनशब्दस्योत्तरपदतया तद्विसर्गस्य उत्तरपदस्थत्वाद् 'अतः ककमि-' इत्यस्य न प्राप्तिरिति भावः । धनुष्करशब्दे श्राह नित्यं समास इति । प्रत्ययावयवत्वाद् इदुदुपधस्य च' इत्यस्य न प्राप्तिरिति भावः। कृतोऽविधानमिति । टस्यापवादः। किंकरेति । टप्रत्यये तु कृदुत्तरपदप्रकृतिवरेणान्तोदात्तत्वमिति । दिवाकर इति । दिवा दिवसं करोतीति विग्रहः । दिवाभूता रात्रिरित्यादाविव दिवाशब्दस्य वृत्तिविषये शक्तिमत्परत्वात् । मूलेऽनुक्कान्यपि काानेचिदुदाहरणानि ऊत्यानि । कर एव कारः। प्रज्ञादित्वादण । कारं करोतीति कारकरः आदिकरः नान्दीकरः किंकरः बलिकरः भक्तिकरः कर्तृकरः