________________
५२]
सिद्धान्तकौमुदी। [पूर्वकृदन्तपाठात् । २६३२ पुरोऽग्रतोऽग्रेषु सर्तेः। (३-२-१८) पुरःसरः । अग्रतः सरः । अग्रमणाने वा सरतीत्यप्रेसरः । सूत्रेऽग्रे इत्येदन्तस्वमपि निपात्यते । कथं तर्हि 'यूथं तदग्रसरगर्वितकृष्णसारम्' इति । बाहुल कादिति हरदत्तः । २६३३ पूर्वे कर्तरि । (३-२-१६) कर्तृवाचिनि पूर्वशब्द उपपदे सर्तेष्टः स्यात् । पूर्वः सरतीति पूर्वसरः । कर्तरि किम्-पूर्व देशं सरतीति पूर्वसारः । २६३४ कृमओ हेतुताच्छील्यानुलोम्येषु । (३-२-२०) एषु चोत्येषु करोतेष्टः स्यात् । 'प्रतः कृकमि-' (सू १६०) इति सः। यशस्करी विद्या । श्राद्धकरः । वचनकरः। २६३५ दिवाविभानिशाप्रभाभास्करान्तानन्ताकथमिति । अधिकरणे भिक्षासेनादायेषु उपपदेषु च विहितस्य टप्रत्ययस्य सहपूर्वाञ्चरेरसंभवादिति भावः। समाधत्ते पचादिष्विति । यद्यपि भिक्षाचर इत्यादी पचाद्यचि रूपसिद्धिः, तथापि नित्योपपदसमासार्थमज्विधानमित्याहुः । पुरोऽग्रतः। पुरस् , अग्रतस् , अंग्रे एखूपपदेषु सर्तेः टः स्यादित्यर्थे । अग्रेसर इति । ननु समासावयवत्वात्सुपो लुकि अग्रसर इति स्याद् इत्यत आह सूत्र इति । कथमिति । एदन्तत्वनिपातनात् कथमग्रसरशब्द इत्यर्थः । समाधत्ते बाहुलकादिति । पूर्वे कर्तरि । कर्तृशब्दः कर्तृवाचिनि गौणः, तदाह कर्तृवाचिनीति । कृतो हेतु । हेतुः कारणम् । श्रानुलोम्यम् आराध्यचित्तानुवर्तनम् । द्योत्येष्विति । कर्तुरेव प्रत्ययवाव्यत्वादिति भावः । हेत्वादिषूपपदेष्विति तु नार्थः, व्याख्यानात् । कर्मण्युपपदे इत्यपि द्रष्टव्यम् । 'कुप्वोः' इति जिह्वामूलीयमाशङ्कयाह अतः कृकमीति । हेतावुदाहरति यशस्करी विद्येति । विद्या यशोहेतुः। श्राद्धकर इति । श्राद्ध. क्रियाशील इत्यर्थः । वचनकर इति । गुर्वादिवचनानुवर्तीत्यर्थः । दिवाविभा। दिवा, विभा, निशा, प्रभा, भास् , कार, अन्त, अनन्त, आदि, बहु, नान्दी, किम्, विति । टविधानं तु 'उपपदमति' इति नित्यसमासार्थम् । सहचरः । सहचरीत्यत्र तु सुप्सुपेति वैकल्पिकः समासः । कृयो । हेतुरिह लौकिको न तु 'तत्प्रयोजको हेतुश्च' इति कृत्रिमः, केवले कृषि तदसंभवात् । द्योत्येष्विति । न तु वाच्ये 'कर्तरि कृत्' इत्यस्य बाधापत्तेरिति भावः । हेत्वादिषु क्रमेणोदाहरति यशस्करीत्यादि । एषु किम्, कुम्भकारः । इह प्रसिद्धतरत्वाद् धनुबन्धोऽपि करोतिरेव गृह्यते न तु कृञ् हिंसायामिति । हेतुः कारणम् । आनुलोम्यमाराध्यचित्तानुवर्तनम् । दिवाविभा । ननु अन्तशब्देन नञ्समासे स्वीकृतेऽपीष्टसिद्धौ सूत्रे त्वन्तशब्दात्पृथगनन्तप्रहणं व्यर्थमिति चेत् । अत्राहुः-खरे तु विशेषोऽस्ति । नसमासे हि अव्ययपूर्वपदप्रकृतिखरेणाद्युदात्तः स्यात्, अनन्तशब्दस्योपपदत्वे तु 'गतिकारकोपपदात्कृत्-' इति