________________
प्रकरणम् ६६ . बालमनोरमा-तत्त्वबोधिनीसहिता। [५१ परिवाजिका तच्छीला। २९२६ अधिकरणे शेतेः । (३-२-१५) खे शेते खशयः । पार्थादिपूपसंख्यानम् (१९६६) । पार्धाभ्यां शेते पावंशयः । पृष्ठशयः। उदरेण शेते उदरशयः। उत्तानादिषु कर्तृषु (१९६८)। उत्तानः शेते उत्तानशयः। अवमूर्धशयः । अपनतो मूर्धा यस्य सः अवमूर्धा अधोमुखः शेते इत्यर्थः । गिरी डश्छन्दसि(१९६६)गिरिशः। लोके गिरिशयः । कथं तर्हि 'गिरिशमुपचचार प्रत्यहंसा सकेशी' इति । गिरिरस्यास्तीति विग्रहे लोमादिस्वाच्छः।२६३० चरेष्टः (३-२१६) अधिकरणे उपपदे । कुरुचरः । कुरुचरी । २६३१ भिक्षासेनादायेषु च । (३-२-१७) भिक्षां चरतीति भिक्षाचरः । सेनाचरः। श्रादायेति ल्यबन्तम् । मादायचरः । कथम् । 'प्रेक्ष्य स्थितां सहचरीम्' इति । पचादिषु चरडिति अच्प्रत्ययबाधको वक्ष्यते, तद्वाधनार्थमित्यर्थः। अधिकरणे। सुबन्तेऽधिकरण. वाचिन्युपपदे शीवातोरच् स्यादित्यर्थः । पाादिष्विति । अत्राधिकरणवाचिनीति न संबट ते । तद् ध्वनयन्नुदाहरति पार्वाभ्यामिति । उत्तानादिषु कर्तृष्विति । वार्तिकमिदम् । उत्तानादिशब्देषु कर्तृवाचिषूपपदेषु शीलोऽजित्यर्थः । गिराविति। वार्तिकमिदम् । गिरावुपपदे शीडो डप्रत्यय इत्यर्थः । 'अधिकरणे शेते' इत्यचोऽपवादः । “नमो गिरिशाय च शिपिविष्टाय च" इति । शीडो डप्रत्यये डि त्वसामर्थ्यादभस्यापि टेर्लोपः । यद्यपि वैदिकप्रक्रियायामेवेदं व्याख्येयम् । तथापि लोके डप्रत्ययस्य न प्रवृत्तिः किं त्वजेवेति प्रदर्शनार्थमिह तद्वथाख्यानमित्यभिपेत्य नोके अच्प्रत्ययमुदाहरति गिरिशय इति । कथमिति । लोके डप्रत्ययासंभवादिति भावः । समाधत्ते गिरिरस्यास्तीत्यादि । चरेष्टः । ट इति च्छेदः । अधिकरणे उपपदे इति शेषः। 'अधिकरणे शेतेः' इत्यतः तदनुवृत्तेरिति भावः । कुरुचर इति । कुरुषु चरतीति विप्रहः । न च 'अकर्मकधातुभिर्योगे-' इति कर्मत्वं शङ्कयम , तस्य वैकल्पिकतायाः तत्रैव प्रपञ्चितत्वात् । तत्र अत्रत्यमपि भाष्यं प्रमाणम् । भिक्षासेना। भिक्षा, सेना, प्रादाय एषु चोपपदेषु चरेष्टः स्यादित्यर्थः । भितां चरतीति । चरतिरत्र चरणापूर्वक आर्जने वर्तते। चरणेन मिक्षा. मार्जयतीत्यर्थः । सेनाचर इति । सेनां प्रापयतीत्यर्थः । ल्यबन्तमिति । अत्र व्याख्यानमेव शरणम् । आदाय चरतीति । लब्धं द्रव्यं गृहीत्वा चरतीत्यर्थः । नामेत्यादि । अनधिकरणार्थमुपसंख्यानमिति दर्शयति पाभ्यिामित्यादिना । कुरुचर इति । कुरुषु देशेषु चरत्यटतीत्यर्थः । भिक्षासेना । अनधिकरणार्थ प्रारम्भः। भिक्षां चरतीति । चरतिरत्र चरणपूर्वके अर्जने वर्तते । चरणेन भिक्षामर्जयतीयर्थः । सेनाचर इति । सेनां चरति प्रविशतीत्यर्थः । पचादि.