________________
५० ]
सिद्धान्तकौमुदी ।
[ पूर्वकृदन्त
२६२४ वयसि च । ( ३-२- १० ) उद्यमनार्थं सूत्रम् । कवचहरः कुमारः । २६२५ श्रङि ताच्छील्ये । ( ३-२-११ ) पुष्पाण्याहरति तच्छीलः पुष्पाहरः । ताच्छील्ये किम् - भारहारः । २६२६ अर्हः । ( ३-२-१२ ) अर्हतैरच्स्यात्कर्मण्युपपदे श्रणोऽपवादः । पूजाह ब्राह्मणी । २६२७ स्तम्ब कर्णयो रमिजपोः । ( ३-२-१३ ) 'हस्तिसूचकयोरिति वक्रव्यम्' ( वा १४ ) स्तम्बे रमते स्तम्बेरमो हस्ती । ' तत्पुरुषे कृति -' ( सू १७२ ) इति 'हलदन्तात् -' ( ३६६ ) इति वा ढेरलुक् । कर्णे जपः सूचकः । २६२८ शमि धातोः संज्ञायामु। ( ३-२-१४ ) शम्भवः । शंवदः । पुनर्धातुग्रहणं बाधकविषयेविवृत्यर्थम् । कृत्रो हेत्वादिषु टो मा भूत् । शंकरा नाम वार्तिकमिदम् । सूत्रे कर्मण्युपपदे धारणार्थकाद् ग्रहधातोरजित्यर्थः । वयसि च । कर्मण्युपपदे वयसि गम्ये हरतेरजित्यर्थः । ननु 'हरतेरनुद्यमनेऽच्' इत्येव सिद्धे किमर्थमित्यत आह उद्यमनार्थमिति । श्राङि ताच्छील्ये । आङ्पूर्वाद्धरतेः कर्मण्युपपदे अच् स्यात्ताच्छील्ये गम्ये । ताच्छील्यं तत्स्वभावता । पुष्पाहर इति । पुष्पाहरणे फलानपेक्षमेव स्वाभाविकी प्रवृत्तिरस्येत्यर्थः । अर्हः । श्रणोऽ ऽपवाद इति । यद्यपि णिचि च पूजार्हरूपे न विशेषः, श्रदुपधत्वाभावेन वृद्धेरप्रसक्तेः । तथापि स्त्रियामण्णन्तत्वे ङीप्यात् । तन्निवृत्तये प्रविधिः, तदाह पूजार्हेति । स्तम्बकर्णयोः । रम जप अनयोरकर्मकत्वात् कर्मणीति न संबध्यते । जपेः शब्दोच्चारणार्थकस्य धात्वर्थोपसंग्रहादकर्मकत्वं बोध्यम् । दर्भादितृणनिचयः स्तम्बः । सूचकः । पिशुनः । हस्तिसूचकयोः किम् ? स्तम्बे रन्ता गौः । कर्णे जपिता गुरुः मशको वा । शमि धातोः । शमि इति सप्तम्यन्तम् । शमिति सुखार्थकमव्ययम् । तस्मिन्नुपपदे धातोरच् स्यात्संज्ञायाम् । ननु धातुग्रहणं व्यर्थम् । न च रमिजपोरननुवृत्त्यर्थं तदिति वाच्यम्, अस्वरितत्वादेव तदननुवृत्तिसिद्धेरित्यत पुनर्धातुग्रहणमिति । 'कृञो हेतुताच्छील्यानुलोम्येषु' इति टप्रत्ययः
•
राज्ञीत्यत्र टच् द्विषतीताप इत्यत्र 'द्विषत्परयोः -' इति खच् नेति दिक् । कवचहर इति । कवचोद्यमनं क्रियमाणं संभाव्यमानं वा वयो गमयति । तेनासत्यपि कवच - प्रहणे कवचहर इति भवत्येव । हस्तिसूचकयोरिति । अन्यत्र तु स्तम्बे रन्ता । क जपिता । शमि धातोः । शमि उपपदे धातुमात्रात्संज्ञायामच् स्यात् । पुन धतुग्रहणमिति । असति धातुग्रहणे शमि संज्ञायामित्यस्यावकाशः । शंभवः । शंवदः । 'कृमो हेतुताच्छील्य-' इत्यस्यावकाशः । श्राद्धकरः शंकर इत्यत्रोभयप्रसङ्गे परत्वाट्ट एव स्यात् । धातुग्रहणे कृते तु तत्सामर्थ्यादजेन भवति, तदाह शंकरा
1