________________
प्रकरणम् ६६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४६ गापोष्टक् । (३-२-८) अनुपसृष्टाभ्यामाभ्यां टक्स्यात्कर्मण्युपपदे । सामगःसामगी। उपसर्गे तु सामसंगायः । 'पिबतेः सुराशीचोरिति वाच्यम्' (वा १६६०) । सुरापी । शीधुपी। अन्यत्र क्षीरपा ब्राह्मणी । सुरां पाति रक्षतीति सुरापा २६२३ हरतेरनुद्यमनेऽन् । (३-२-६) अंशहरः । अनुगमने किम्-भारहाः । शकिलागलाङ्कशतोमरयष्टिघटघटीधनुःषु ग्रहेरुपसंख्यानम्' (वा १९९२) शावग्रहः । लाङ्गलग्रहः । 'सूत्रे च धार्येऽर्थे' (वा १९१३) सूत्रग्रहः । यस्तु सूत्रं केवलमुपादत्ते न तु धारयति तत्राणेव, सूत्रमाहः । रूपम् । 'ख्या प्रकथने' इत्यस्य तु संपूर्वस्य प्रयोगाभावात , सार्वधातुकमात्रविषयत्वाच्च नेह संबध्यते । गापोष्टक् । 'गै शब्दे' 'पा पाने' इत्यनयोः टक् स्यात् कर्मण्युपपर्दै। सामग इति । टकि आतो लोपः । सामगीति । टित्त्वान्गबिति भावः । सामसंगाय इति । सोपसर्गाद् गैधातोः कर्मण्यणि आतो युकि रूपम् । पिबतेरिति । वार्तिकमिदम् । पाधातोः सुराशीध्वोरुपपदयोः टक् स्यादित्यर्थः। क्षीरपेति । क्षीरं पिबतीत्यर्थे सुराशीध्वोरन्यतरत्वाभावाद् 'तोड नुपसर्गे कः' इति कप्रत्यये टाप् । पाति रक्षतीति । 'पा रक्षणे' इति लुग्विकरणस्य पिबतिग्रहणेन अग्रहणमिति भावः । हरतेरनुद्यमनेऽन् । अनुद्यमने विद्यमानाकर्भरायुपपदे अजित्यर्थः । उद्यमनम् उद्ग्रहणम । अंशहर इति । अशस्य स्वीकर्तेत्यर्थः । भारहार इति । भारम् उद्गृह्णातीत्यर्थः । ग्रहेरुपसंख्यानमिति । अच्प्रत्ययस्येति शेषः । 'ग्रह उपादाने' अदुपधः । क्वचिद् गृहेरिति तु कृतसंप्रसारणस्य इका निर्देशः । शक्तिग्रह इति । अकित्त्वान्न संप्रसारणम् । लाङ्गलग्रह इति । अंकुशग्रह इत्याद्यप्युदाहार्यम् । सुत्रे चेति । गाः संचष्टे इति विग्रहः । चक्षिङः ख्याञ्ख्या प्रकथन इत्यस्य तु संपूर्वस्य प्रयोगो नास्तीति न्यापकारः। सार्वधातुकमात्रविषयोऽसौ धातुरिति च मनोरमादौ स्थितम् । गापोष्टक् । इह गामादाग्रहणेष्वविशेषेऽपि गायतेरेव ग्रहणं न तु गाङ् गतौ गा स्तुतौ इत्यनयोः, अनभिधानात् । सामगः। सामगीति । एतेन टकः कित्त्वमालोपार्थ टित्त्वं तु डीबर्थमिति ध्वनितम् । प्रत्ययाधिकाराट्टकः प्रत्ययत्वेन 'प्रत्ययः' 'परश्च' इति धातोः पर एव स्यादिति 'आद्यन्तौ टकितौ' इत्यस्यात्र आशङ्कव नास्तीति बोध्यम् । सामसंगाय इति । कर्मण्यणि सति 'आतो युक्-' इति युक् । पिबतेरिति । 'लुम्विकरणालुग्विकरणयोः-' इति परिभाषालब्धार्थकथनम् , उपपदपरि. गणनं तु वाचनिकमेव । क्षीरपेति । क्षीरं पिबतीत्यातोऽनुपसर्गे कः । शक्तीति । घरग्रहणेनैव सिद्धे घटीग्रहणं लिङ्गविशिष्टपरिभाषाया अनित्यत्वज्ञापनार्थम् । तेन मद्र