________________
४८]
सिद्धान्तकौमुदी। [पूर्वकृदन्तकर्मकेषु सुपीत्यस्य संबन्धः २६१६ तुन्दशोकयोः परिमृजापनुदोः । (३-२-५) तुन्मशोकयोः कर्मणोरुपपदयोराभ्यां कः स्यात् । 'पालस्य सुखाहरणयोरिति वक्रव्यम्' ( वा १९८८) तुन्दं परिमार्टीति तुन्दपरिमृजोऽलसः । शोकापनुदः सुखस्याहर्ता । अलसादन्यत्र तुन्दपरिमार्ज एव । यश्च संसारासारस्वोपदेशेन शोकमपनुदति स शोकापनोदः । 'कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम्' (वा १९८६) । मूलानि विभुजति मूलविभुजो रथः । प्राकृतिगणोऽयम् । महीध्रः । कुध्रः । गिलतीति गिलः । २६२० प्रे दाज्ञः । (३-२-६) दारूपाजानातेश्च प्रोपसृष्टास्कर्मण्युपपदे कः स्यादणोऽपवादः । सर्वप्रदः । पथिप्रज्ञः। अनुपसर्ग इत्युक्तः प्रादन्यस्मिन्सुपि न कः । गोसंप्रदायः । २६२१ समि ख्यः । (३-२-७) गोसंख्यः । २६२२ अग्निष्ठः । कप्रत्ययान्तस्येति किम् , भूमिस्थितम् । इत ऊवीमति । 'तुन्दशोकयो:-' इत्यारभ्येत्यर्थः । सुपीत्यस्येति। न तु कर्मणीत्यस्य, असंभवादिति भावः । तुन्दशोकयोः। तुन्दशोकयोरिति सप्तमी। परिमृज, अपनुद, अनयोर्द्वन्द्वात्पञ्चम्यर्थे षष्ठी, तदाह उपपदयोराभ्यामिति । तुन्दपरिमृज इति । तुन्दम् उदरम् । अत्र ‘मृजेरजादौ' इति पाक्षिकद्धिर्न भवति, व्यवस्थितविभाषाश्रयणादित्याहुः । मूलानि विभुजतीति । विमर्दयती व्यर्थः । 'भुजो कौटिल्ये' तुदादिः । इहोपसर्गबलान्मदने वृत्तिः। महीध्र इति। महों धरतीति विग्रहः । कित्त्वान्न गुणः । ऋकारस्य यण् रेफः । अणि तु महीधार इति स्यात् । कुध्र इति । कुः पृथ्वी, तां धरतीति विग्रहः । गिल इति । 'ग निगरणे' अन्मात् कः, कित्त्वान्न गुणः, इत्त्वं रपरत्वम् । 'अचि विभाषा' इति लत्वम् । प्रे दाज्ञः। प्रे इति सप्तमी पञ्चम्यर्थे । दा, ज्ञा अनयोर्द्वन्द्वात् पञ्चम्ये कवचनम् । प्रोपसृष्टादिति । प्रेत्युपसर्गपूर्वकादित्यर्थः। सोपसर्गार्थ प्रारम्भः। समि ख्यः । समीति पञ्चम्यर्थे सप्तमी। गोसंख्य इति । गाः संचष्ट इति विग्रहः । संपून चक्षिङः ख्यानि मनिष्ठः पुञ्जिष्ठः परमेष्ठः बहिष्ठः दिविष्ठः अग्निष्टः । श्राभ्यामिति । परिमृजापनु. दोरित्यत्र पञ्चम्य) षष्ठीति भावः। तुन्दपरिमृज इति । अत्र मृजेरजादाविति वैकल्पिकी वृद्धिर्व्यवस्थितविभाषया नेत्येक । स्यादवेत्यन्ये । मूलविभुजादिभ्य इति । तादयें एषा चतुर्थी । मूलविभुजादिसिद्धयर्थमित्यर्थः । प्रेदाशः । गामादाप्रहणेष्वविशेषादाह दारूपादिति । पथिप्रज्ञ इति । पन्थानं प्रकर्षण जानातीत्यर्थः । प्रादन्यस्मिन्निति । प्रशब्दमात्रोपपदे अस्य सूत्रस्य चरितार्थत्वादुपसगी. न्तरे सति 'पातोऽनुपसर्ग-' इसनेनापि न भवतीति भावः। गोसंख्य इति ।