SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६६] बालमनोरमात्तत्त्वबोधिनीसहिता। [४७ प्रष्ठोऽग्रगामिनि । (८-३-१२) प्रतिष्ठत इति प्रष्ठो गौः, । अग्रतो गच्छतीत्यर्थः । 'अन' इति किम् -प्रस्थः। २६१८ अम्बाम्बगोभूमिसव्योपद्वित्रिकुशकुशवङ्गमञ्जिपुञ्जिपरमेबहिदिव्यग्निभ्यः स्थः। (८-३-६७) स्यै ति .कप्रत्ययान्तस्यानुकरणम् । षष्ठ्यर्थे प्रथमा । एभ्यः स्थस्य सस्य षः स्यात् । द्विष्ठः । विष्ठः । इत ऊर्ध्व कर्मणि सुपीति द्वयमप्यनुवर्तते । तत्रा. कतीरे 'सुपि' इति पूर्वेण सिद्धरिह 'कर्तरि कृत्' इति नानुवर्तते । आनर्दिष्टार्थत्वाद् 'गुप्तिज्किद्भयः सन्' इत्यादिवत् स्वार्थिकोऽयम् । स्वार्थश्च भाव एवेति भाष्ये स्पष्टम् , नित्योपपदसमासार्थत्वात् । अत एव ल्युडन्तेन अस्वपदविग्रहं दर्शयन्नाह प्राखूनामुत्थानम् आखूत्थ इति । प्रष्ठोऽग्रगामिनि । प्रपूर्वात् स्थाधातोः 'आतश्वोपसर्गे' इति कप्रत्यये अातो लोपे प्रस्थशब्दः । सः अग्रगामिनि वाच्ये कृतषत्वः निपात्यते। इणकवर्गाभ्यां परत्वाभावात् षत्वस्य न प्राप्तिः । प्रतिष्ठत इति । अग्रे गच्छतीत्यर्थः, उपसर्गवशात् । प्रष्ठो गौरिति । अग्रगामीत्यर्थः । एवं प्रष्टोऽश्वो इत्यादि । अम्बाम्ब । अम्ब, आम्ब, गो, भूमि, सव्य, अप, द्वि, त्रि, कुशे, कु, शकु, अङ्गु, मञ्जि, पुञ्जि, परमे, बर्हिस् , दिवि, अग्नि एषामष्टादशानां द्वन्द्वः । अम्बष्ठः, अाम्बष्ठः, गोष्ठः, भूमिष्ठः । सव्येष्ठः, निपातनादलुक् । 'हलदन्तात्सप्तम्या:-' इति वा । अपष्ठः । एषु कतिपयेषु इणकवर्गाभ्यां परत्वाभावात् । षत्वस्य न प्राप्तिः । कतिपयेषु 'सात्पदाद्योः' इति निषेधः प्राप्तः। एवमग्रेऽपि द्विष्ठ इति। द्वाभ्यां तिष्ठतीति विग्रहः । एवं त्रिष्ठः, कुशेष्ठः, कुष्ठः, शकुष्ठः अगुष्ठः, मञ्जिष्ठः, पुञ्जिष्ठः । परमेष्ठः, निपातनादलुक् 'हलदन्तात्-' इति वा । बर्हिष्ठः । दिविष्टः पूर्ववदलुक् । अत्राहुः-अकर्तरि कारके विधानार्थ तत्र स्थाग्रहणमिति । आखूत्थ इति । स्था इत्यस्य के परे 'आतो लोपः' इत्यालोपः, 'उदः स्थास्तम्भोः-' इति उदः परस्य सस्य थः, उदो दस्य चर्वम। अत्र प्राचा आखूत्थं वर्तत इति नपुंसके पठितं तदुपेक्ष्यमिति मनोरमायामुक्तम् । माण्यादौ सर्वत्र पुल्लिङ्गस्यैवोदाहृतत्वात् । 'ल्युः कर्तरीमनिज भावे को घोः किः प्रादितोऽन्यतः' इत्यमरकोशे भाव कस्य पुंस्त्वविधानाद् 'भावे नणकचिन्योऽज्ये' इति नपुंसकविधाने कस्य पर्युदासाचेति नणकचिङ्ग्य इत्यत्र चकार इद्यस्य स चित् नश्च णश्च कश्च चिश्च नणकचितस्तेभ्योऽन्य इति विग्रहः । अम्बाम्ब । अप्रत्ययान्तस्येति । तेन भूमिस्थितं गोस्थानमित्यादौ नेति भावः । प्राचा तु स्थस्य सस्यति व्याख्यातव्ये स्थ सस्येति व्याख्यातं तदाकरविरोधेन कप्रत्य: यान्तस्येत्यध्याहृत्य व्याख्येयम् । द्विष्ठः । त्रिष्ठ इति। द्वयोस्तिष्ठतीत्यादिविग्रहः । एवमम्बन्धः अम्बत्रः गोष्ठः भूमिष्ठः सव्यष्ठः अपष्ठः कुशेष्ठः कुष्ठः शङकुष्ठः अगुष्ठः १ 'सव्येऽप' इति क्वचित्पाठः ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy