SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ४६ ] सिद्धान्तकौमुदी। [पूर्वकृदन्तजिनाति ब्रह्मज्यः । सर्वत्रग्रहणादातश्चोपसर्गे । अाह्वः । प्रह्वः। २६१६ सुपि स्थः । (३-२-४) सुपीति योगो विभज्यते । सुप्युपपदे आदन्तात्कः स्यात् । द्वाभ्यां पिबतीति द्विपः। समस्थः । विषमस्थः। ततः 'स्थ' । सुपि तिष्ठतेः ‘कः स्यात् । प्रारम्भसामर्थ्याद् भावे। श्राखूनामुत्थानमाखूत्थः । २६१७ पादमूलभागः । तं त्रायते इति विग्रहः । 'त्रैङ् पालने' प्रात्वे कृते कः । गोसंदाय इति । अण्यातो युक् । कविधौ सर्वत्रेति । वार्तिकमिदम् । सर्वत्र कात्ययविधौ संप्रसारणाहेभ्यः कापवादो डप्रत्ययो वाच्य इत्यर्थः । ब्रह्मज्य इति । 'ज्या वयो. हानौ' अस्माङः । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः अत्र कप्रत्यये सति कित्त्वाद् 'अहिज्या-' इति संप्रसारणं प्रसक्तम् । अतो ड एव, न तु कः । सर्वत्रेति । उपसर्गे उपपदे आतोऽपि ड एव । न तु 'आतश्रोपसर्गे' इति कः । सर्वत्रग्रहणादित्यन्वयः । अन्यथा अनन्तरस्य विधिरिति न्यायाद् 'आतोऽनुपसर्गे कः' इत्येव बाध्येत न तु 'पातश्वोपसर्गे' इति कप्रत्यय इति भावः। आह्वः प्रब इति । अत्र 'आतश्चोपसर्ग' इति कं बाधित्वा ड एव । तस्य अकित्त्वाद्य जादिलक्षणं संप्रसारणं न। सुपि स्थः । योगो विभज्यते इति । इदं भाष्ये स्पष्टम् । तत्र सुपीयशं व्याचष्टे सुप्युपपद इति । इदं केवलोपसर्ग व्यर्थम् , 'आतश्वोपसर्गे' इत्येव सिद्धेः । कर्मण्यु. पपदेऽप्येतद्वयर्थमेव, आतोऽनुपसर्गे कः' इत्यारम्भादिति मत्वोदाहरति द्वाभ्यामिति । तत इति । सुपीत्यंशस्य व्याख्यानानन्तरं स्थ इत्यंशो व्याख्यायत इत्यर्थः। ननु सुपि इलशेनैव सिद्धे किमर्थमिदमित्यत आह आरम्भसामर्थ्यादिति । प्रसारणमिति संप्रसारणपर्यायः। जिनातीति । ज्या वयोहानौ। क्यादिभ्य इति श्वाप्रत्यये 'अहिज्या-' इति संप्रसारणे पूर्वरूपे 'हलः' इति दीर्घ च कृते 'प्वादीनाम्-' इति ह्रस्वः। ब्रह्मज्य इति । ठित्त्वसामर्थ्यादभस्यापि टेर्लोपः। पूर्वेण के हि सति कित्त्वात्संप्रसारणादौ च ब्रह्मजिय इति स्यात् । आह्वः प्रत इति। के हि सति 'वचिखपि-' इत्यादिना द्वेञः संप्रसारणे सति पाहुव: प्रहुव इति स्यादिति बोध्यम् । सुपि स्थः । सुबिति प्रत्याहारो गृह्यते न तु सप्तमीबहुवचनम् । कृत्रिमाकृत्रिमयोः कृत्रिमयैव ग्रहणात् । प्रारम्भसामर्थ्यादिति । कर्तरि पूर्वेणैव सिद्धत्वादिह 'कर्तरि कृत्' इति न संबध्यते, अनिर्दिष्टार्थश्च स्वार्थे धातोः स्वार्थ भाव एव । नन्वेवं 'घर्ये कविधानम्' इत्यनेन गतार्थतेति चेत् , न, वार्तिकं दृष्ट्वा सूत्रकृतोऽप्रवृत्तेः । किं च षष्ठी' इति सूत्रेण पाक्षिकसमासे प्रसक्ते 'उपपदमति' इति नित्यसमासार्थमिदम् । अत एव ल्युडन्तेनाखपदविप्रहमाह आखूनामुत्थानमिति । नन्वेवं वार्थ कविधाने 'स्थानापाव्यधिहनियुध्यर्थम्' इति वार्तिक स्थाग्रहणं व्यर्थमिति चेत् ,
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy