________________
प्रकरणम् ६६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४५ भ्यां च' (वा १९८१ ) सुखप्रतीक्षा । बहुक्षमा । कथं तर्हि गङ्गाधरभूधरादयः। कर्मणः शेषत्वविवक्षायां भविष्यन्ति । २६१४ हावामश्च । (३-२-२) एभ्यः अण् स्यात् । कापवादः । स्वर्गवायः । तन्तुवायः । धान्यमायः । २६१५ आतोऽनुपसर्गे कः। (३-२-३) श्रादन्ताद्धातोरनुपसर्गास्कर्मएयुपपदे कः स्यानाण् । 'पातो लोपः' । गोदः । पाणित्रम् । अनुपसर्ग किम्गोसन्दायः । 'कविधौ सर्वत्र संप्रसारणिभ्यो डः' (वा १९८४) । ब्रह्म खभावतः सेवने वर्तते । मांस व भावतः सेवमाने यर्थः । मांसकामेति । मांसं कामयते इति विग्रहः । मांसभक्षेति । मांस भक्षयते इति विग्रहः । कल्याणाचारेति । कल्याणमाचरतीति विग्रहः । सर्वत्र टाप् । ईक्षिक्षमिभ्यामिति । वार्तिकमिदम् । ण इति शेषः । कथमिति । कर्मण्यणि गङ्गाधार इत्यादि स्यादित्याक्षेपः । कर्मणः शेषत्वेति । तथा च कर्मोपपदाभावान्नाणिति भावः । हावामश्च । 'हृञ् स्पर्धायाम्' 'वेञ् तन्तुसन्ताने' अनयो' कृतात्वयोनिर्देशः 'माङ् माने' एषां द्वन्द्वात्पञ्चम्येकवचनम् । एभ्य इति । कर्मण्युपपदे एभ्यः अण् स्यादित्यर्थः । ननु 'कर्मण्यण' इत्येव सिद्धे किमर्थमिदभित्यत आह कापवाद इति । 'पातोऽनुपसर्गे कः' इत्यस्याणपवादस्य वक्ष्यमाणस्य बाधनार्थमित्यर्थः । मामेडोरिह ग्रहणम् , नतु 'मा माने' इत्यस्य, अकर्मकत्वात् । स्वर्गद्वाय इति । यद्यपि पराभिभवेच्छायां स्पर्धायां पराभिभवस्य कर्मणो धात्वर्थत्वेनोपसंग्रहादकर्मक इत्युक्तम् । तथापि इहाभिभवेच्छा धात्वर्थः । स्वर्गमभिभवितुं, वाञ्छतीत्यर्थः । अन्तरमत्वादात्वे कृते आतो युक् । एवमप्रेऽपि । आतोऽनुपसर्गे कः । पाणित्रमिति । पाणिः इति षष्टयन्तस्य कुम्भशब्दस्य कारशब्देन समासः । शेषत्वविवक्षायामिति । पदसंस्कारपक्षे तु धरतीति धरः, गङ्गाया धर इति कर्मणि या षष्ठी तंदन्तेन समास इति सुवचम् ' स्यादेतत्-धातोविधीयमानस्याणादेः पदविधित्वाभावेन समर्थपरिभाषाया अनुपस्थानात्पश्यति कुम्भ, करोति कटमित्यादावसमर्यादपि धातोरणादयः स्युरिति चेत् । अत्राहुः-कुम्भायुपपदे विधीयमानस्याणादेरपि पदाश्रितविधित्वा. समर्थपरिभाषोपस्थानानोक्नदोषः । उपोच्चारितं पदं धुपपदं पदं च सुप्तिङन्तमिति प्रागेवोक्वत्वादिति । हावामश्च । कापवाद इति । 'ातोऽनुपसर्गे-' इति प्राप्ति
ध्या। स्वर्गद्वाय इत्यादि । 'हेवेनोः श्रादेच-' इत्यात्वे 'आतो युक-' इति युक् । माल् माने । मेङ् प्रणिदाने । अनयोरिह प्रहणं न तु मा माने इत्यस्य अकर्मकत्वात् । कविधानस्य फलमाह आतो लोप इति । पाणित्रमिति । पाणिं त्रायत इति त्रैङ् पालने । गोसंदाय इति । अण् , युक् । प्रसारणिभ्य इति ।