SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ४४ ] सिद्धान्तकौमुदी । [ पूर्वकृदन्त वृत्तेन्स्यात्कर्तरि । जीवतात्- जीवकः । नन्दतात्-नन्दकः । श्राशीः प्रयोक्तुधर्मः । प्रशासितुः पित्रादे रिय मुक्तिः । इति तृतीयाध्यायस्य प्रथमः पादः । २६१३ कर्मण्यण् । ( ३-२- १ ) कर्मण्युपपदे धातोरणप्रत्ययः स्यात् । उपपदसमासः । कुम्भं करोतीति कुम्भकारः । श्रादित्यं पश्यतीत्यादावनभिधानाच । । शीलिकामिभच्याचरिभ्यो णः ' ( वा १६८० ) । अणोऽपवादार्थ वार्तिकम् । मांसशीला | मांसकामा | मांसभक्षा | कल्याणाचारा | 'ईक्षितमि भाष्ये स्पष्टम् । प्रु, सृ, लू एषां समाहारद्वन्द्वात्पञ्चमी । श्राशिषि च । जीवक इति । श्राशास्यमानजीवन क्रियाश्रय इत्यर्थः । एवं नन्दकः । श्राशीरिति । आशासनम् श्रयमित्थं भूयादिति प्रार्थनं शब्दप्रयोक्तृकर्तृकमिति यावत् । तत आशासितुः पित्रादेरियमुक्तिः । इत्थं नन्दकशब्दप्रयोगः । श्रचित्यादिति भावः । इति तृतीयाध्यायस्य प्रथमः पादः । अथ तृतीयाध्यायस्य द्वितीयः पादः । कर्मण्यण् । कर्मण्युपपदे इति । 'तत्रोपपदं सप्तमोस्थम्' इत्यत्र तवेत्यनेनेदं लभ्यत इति तत्रैवोक्तम् । प्रत्ययस्तु कर्तव । उपपदसमास इति । 'उपपदमतिङ्' इत्यनेनेति भावः । कुम्भं करोतीति । श्रखाद लौकिकविमोऽयम् । कुम्भ अस् कार इत्यलौकिकविग्रहवाक्ये सुबुत्पत्तेः प्रागेव कारशब्देन कृदन्तेन कुम्भ अस् इति षष्ठयन्तस्य समास इति प्रागेवोक्तम् । ननु श्रादित्यं पश्यतीत्यादित्यदर्शः, हिमवन्तं शृणोतीति हिमवच्छ्रावः, ग्रामं गच्छतीति प्रामगाम इत्यादि स्यादित्यत आह आदित्यं पश्यतीत्यादावूनभिधानान्नेति । एतच्च भाष्ये स्पष्टम् । शीलीति । शीलि, कामि, भक्षि, आचरि एभ्यो णप्रत्ययो वाच्य इत्यर्थः । ननु 'कर्मण्यण्' इत्यणैव सिद्धे किमर्थमिदमित्यत श्राह श्रणोऽपवादार्थमिति । श्रणन्तत्वे तु ङीप् स्यानू । तन्निवृत्त्यर्थं विधानमिति भावः, तदाह मांसशीलेति । 'शील समाधौ ' इति त्रादिः । इह तु करोति तत्र वुन् । यस्तु बहुशोऽपि दुष्टं करोति तत्र नेति भावः । श्राशिषि च । अप्राप्त प्रार्थनमाशी' । सा च प्रयोक्तृधर्मो न प्रत्ययार्थः, 'कर्तीरे कृत्' इति कर्त्रर्थे विधानादित्याशयेनाह श्राशीर्विषयार्थेत्यादिना । जीवतादिति । जीवनं तव भूयादित्यर्थः । जीवक इति । स्त्रियां तु टापि 'आशिषि वुनश्च न' इति निषेधात् 'प्रत्ययस्थात्-' इति इत्वाभावः । जीवको । कर्मण्यण् । उपपदसमास इति । 'तत्रोपपदम् -' इति कर्मादिवाच्य कुम्भादिवाचकपदस्योपपदसंज्ञायाम् 'उपपदमतिङ्' इति समास इत्यर्थः । कुम्भकार इति । अणि कृते 'कर्तृकर्मणोः कृति '
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy