SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६६ ] बालमनोरमा तत्त्वबोधिनीसहिता । [ ४३ संज्ञयो:' ( उ सू ११० ) इति क्वुन् । टाप् । रजिका । पुंयोगे तु रजकी । २६०८ गस्थकन् । ( ३-१-१४६ ) गायतेस्थ कन्स्यात्, शिल्पिनि कर्तरि । गाथकः । २६०६ राघुट् च । ( ३-१-१४७ ) गायनः । दिवाद्वायनी । २६१० हश्च व्रीहिकालयोः । ( ३-१-१४८ ) हाको हाङश्च ययुट् स्यात् व्रीहौ काले च कर्तरि । जहात्युदकमिति हायनो व्रीहिः । जहाति भावानिति हायनो वर्षम् । जिहीते प्राप्नोतीति वा । २६११ प्रसृल्वः समभिहारे वुन् । ( ३-१-१४६ ) समभिहारग्रहणेन साधुकारित्वं लक्ष्यते । प्रवकः । सरकः । लवकः । २६१२ आशिषि च । ( ३-१-१५० ) आशीर्विषयाअतः संगृह्णाति स के अने चेति । रजक इति । रजेः शिल्पिनि निकादेशे नलोपः । रजकीति । षित्त्वाद् ङीप् । नृतिखनिरञ्जिभ्य एवेति परिगणनाद् ‘वेञ् तन्तुसन्ताने' इत्यस्मात् कृतात्त्वात् 'श्याद्वयध-' इति णप्रत्यये तो किवा इति सिध्यति । भाष्यमते तु नृतिखनिभ्यामेवेति । इदं च 'दंशसञ्जव शपि' इति सूत्रे भाष्ये स्पष्टम् । ननु भाष्यमते क्वुनि रजकीति कथमित्यत श्राह पुंयोगे तु रजकीति । गस्थकन् । गः थकन्निति च्छेदः । गैधातोः कृतात्वस्य ग इति पञ्चम्यन्तम्, तदाह गायतेरिति । एयुट् च । चकार उक्तसमुश्च्चये । गायतेर्युट् थकन् च शिल्पिनि कर्तरि । गायन इति । त्वे युक् । 'आदेचः-' इत्यात्वस्य अनैमित्तिकत्वेन वृद्धयपेक्षया अन्तरङ्गत्वात् । यद्यपि 'गस्थकन् युट् च' इत्येकमेव सूत्रमुचितम् । तथापि रायुट एवोत्तरसूत्रे अनुवृत्त्यर्थो योगविभागः । हश्च । 'श्रो हाक् त्यागे' इत्यस्य 'ओ हाङ् गतौ' इत्यस्य च हः इति पञ्चम्यन्तम्, तदाह हाको हाङश्चेति । प्रसृल्वः । लक्ष्यत इति । एतच्च ख्यातुं भाष्यकृतोक्तम् । रजकरजनरजः सु कित्वात् सिद्धं कित एवैते श्रणादिका इति कैट ह रजक इति । 'शिल्पिनि ष्वन्' इति ष्वन । रजनमिति 'रजेः क्युन्' इति क्युन् । रज इति 'भूरञ्जिभ्यां कित्' इत्यसुन प्रत्यय इत्यादि । गस्थकन् । गामादाग्रहणेष्वविशेषेऽपि गै शब्द इत्ययमेवेह गृह्यते न तु गाङ् गताविति । थकन् प्रत्ययो हि गायत्यर्थविषयमेव शिल्पिनमभिधातुं समर्थ इत्याशयेनाह गायतेरिति । युद् च । योगविभाग उत्तरत्र अस्यैवानुवृत्त्यर्थः । गायन इति । श्रतो युक् । जहात्युदकमिति । उदकादधिकं वर्धनात् । भावानिति । भावा: पदार्थाः, तान् जिहीते इति श्रहाङ् गतौ 'भृञामित्' इत्यभ्यासस्येत्वम् । सृल्वः । पञ्चमीस्थाने व्यत्ययेन जस् । ‘श्रोः सुपि' इति यण् । लक्ष्यत इति । भूयः सहचाराद्, यो हि यां क्रियां पुनः पुनरनुभवति स तत्र प्रायेण कौशलं लभते तेन सकृदपि यः सुष्ठु
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy