________________
४२ ]
सिद्धान्तकौमुदी ।
[ पूर्वकृदन्त
काशिका | भवो देवः संसारश्च । भावाः पदार्थाः । भाष्यमते तु प्राप्त्यथास्तुस्मदिण्यन्तादच् । भावः । २६०६ गेहे कः । ( ३-१-१४४ ) गेहे कर्तरि ग्रहः कः स्यात् । गृह्णाति धान्यादिकमिति गृहम् । तास्स्थाद् गृहा दाराः । २६०७ शिल्पिनि वुन् । ( ३-१-१४५ ) क्रियाकौशलं शिल्पं तद्वस्कर्तरि स्वस्यात् । 'नृतिखनिरञ्जिभ्य एव' ( वा १३७१ ) नर्तकः - नर्तकी । खनकः - खनकी । असि के धने च रर्नलोपो वाच्यः' ( वा ४०६७ ) । रजकः - रजकी । भाष्यमते तु नृतिखनिभ्यामेव वुन् । रञ्जेस्तु 'क्वुन्शिहिप
ग्रह इत्येव भवतीत्यर्थः । भवतश्चेति । गो वेति शेषः । पते अच् । काशिकेति । भाष्ये तु न दृश्यते इति भावः । इयमपि व्यवस्थितविभाषैव, तदाह भावो देव इति । महादेव इत्यर्थः । अत्र अजेवेति भावः । भावाः पदार्था इति । अत्रण एवेति भावः । ननु भवतेवेति णविकल्पस्य भाष्ये प्रदर्शनात् कथं भाष्यमते भावशब्द इत्यत श्राह भाष्यमते त्विति । भावयति प्रापयति स्वकार्यमित्यर्थे 'भू प्राप्तौ' इति चुरादिण्यन्ताद् भावि इत्यस्माद् अच्प्रत्यये णिलोपे भावशब्द इत्यर्थः । गेहे कः । 'विभाषा ग्रहः' इत्यस्यापवादः । गृहमिति । 'हिज्या--' इति संप्रसारणं पूर्वरूपं च । ननु ग्रहा दारा इति कथम् । गेहे कर्तर्येव वाच्ये कप्रत्ययविधानादित्यत आह तात्स्थ्यादिति । गृहशब्दो गेहस्थे लाक्षणिक इति भावः । गृहा दारा इति । 'दारेष्वपि गृहाः' इत्यमरः । शिल्पिनि वुन् । नृतिखनिरञ्जिभ्य एवेति । वार्तिकमिदम् । नर्तकीति । षित्त्वाद् वाषिति भावः । 'दंशसञ्जख शपि' इति सूत्रे 'रजकर जनरजस्सूपसंख्यानम्' इति वार्तिकम् । तद्
'दवदावौ वनारण्यवह्री' इत्यमरः । काशिकेति । भाष्ये त्वेतद्वार्तिकं नास्तीति तन्मते भावशब्दो माधुरित्यत आह भाष्यमते त्विति । गेहे कः । गेह इति प्रत्ययार्थस्य कर्तुर्विशेषण नोपपदम् । 'गृहपातना संयुक्तं व्यः' इति निर्देशादित्यभिप्रत्याह हे कर्तरीति । एतत्सूत्रं तु शक्यमकर्तुम् । गृह ग्रहणे इति भ्वादेरिगुपधलक्षणे कप्रत्यये कृतं गृहशब्दस्य सिद्धेः । तात्स्थ्यादिति । भवति हि तात्स्य्यात्ताच्छब्यम् । मञ्चाः क्रोशन्तीत्यादौ मञ्चशब्देन पुरुषा श्रपि व्यपदिश्यन्ते, एवं च गृहशब्दो वेश्मनि मुख्य दारेषु त्वौपचारिक इत्यर्थः अत्रेदमवधेयम् —— गृहशब्दोऽयमधेर्चादित्वादुभयलिङ्गः । तत्र नपुंसकलिङ्गोऽभिधेयवचनः पुंल्लिङ्गस्तु बहुवचनान्त एव । 'गृहाः पुंसि च भूम्न्येव' इत्यमरोक्तेरिति । शिल्पिनि ष्वन् । पूर्वेण साह - चर्याच्छिल्पनीयपि प्रत्ययार्थस्य विशेषणं न तूपपदमित्याह तद्वति कर्तरीति । भाष्यमते त्विति । तथा च षष्ठे 'रजकरजनरजः सूपसंख्यानम्' इति वार्तिकं प्रत्या
1