SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४१ 19 मुपसर्गेकं बाधितुम् । अवश्यायः । प्रतिश्यायः । श्रात्-दायः । धायः । व्याधः । 'ख गतौ' श्राङ्पूर्वः संपूर्वश्च । प्रस्तावः । संस्रावः । अत्यायः । अवसायः । अवहारः । लेहः । श्लेषः । श्वासः । २६०४ दुन्योरनुपसर्गे । ( ३-१-१४२ ) णः स्यात् । दुनोतीति दावः । नीसाहचर्यात्सानुबन्धकादुनोतेरेत्र णः । दवतेस्तु पचाद्यच् दवः । नयतीति नायः । उपसर्गे तु प्रदवः । प्रणयः । २६०५ विभाषा ग्रहः ( ३-१-१४३ ) णो वा । पतेऽच् । व्यव स्थितविभाषेयम् । तेन जलचरे ग्राहः । ज्योतिषि ग्रहः । 'भवतेश्व' इति सूत्रे निर्देशः । तयोरादन्तत्वादेव सिद्धे पुनर्ग्रहणम् 'श्रतश्चोपसर्गे' इति कप्रत्ययबाधनार्थमित्यर्थः । अवश्यायः प्रतिश्याय इति । श्यैङ: आत्वे कृते णः, युक् । श्रदिति । श्रादन्तस्योदाहरणसूचनम् । दायः धाय इति । तो युक् । व्याध इति । व्यधेर्णे उपधावृद्धिः । श्रस्रावः, संस्राव इति । णे 'अचोऽञ्णिति' इति वृद्धिः, श्रावादेशः । अत्याय इति । अतिपूर्वादिण्धातोर्णे वृद्धयायादेशौ । अवसाय इति । अवपूर्वात् ' षोऽन्तकर्मणि' इत्यस्माद् ये त्व 8 तो युक् । लेहः श्लेष इति । णे लघूपधगुणः । श्वास इति । ये उपधावृद्धिः । दुम्योरनुपसर्गे । दुनोतेः नयतेश्चेत्यर्थः । दवशब्दं साधयितुमाह नीसाहचर्यादिति । नीग्धातुः सानुबन्धकः, तत्साहचर्यात् 'टु दु उपतापे' इति खादिगणस्थादेव णप्रत्यय इत्यर्थः । दवतेस्त्विति । 'दुद्रु गतौ' इति भौवादिकाद् निरनुबन्धकालचाद्यजित्यर्थः । विभाषा ग्रहः । व्यवस्थितविभाषेयमिति । इदं 'शाच्छो:' इति सूत्रे भाष्ये स्पष्टम् । तेनेति । जलचरे मत्स्यादौ वाच्ये णप्रत्यये उपधावृद्धौ ग्राह इत्येव भवति । ज्योतिषि सूर्यचन्द्रादौ वाच्ये अच्प्रत्यये यणादेशेन, नाप्यततेः अच्छब्दान्तानां वायतिप्रभृतीनां नाप्यकारान्तानां वा प्रश्लेषण ग्रहणं व्याख्यानादिति भावः । कं बाधितुमिति । अन्यथा 'आतश्वोपसर्गे' इति विशेषविहितः कः सामान्यविहितस्य णस्य बाधकः स्यादित्यर्थः । त्रु गतौ । प्राचा तु सूत्रे अश्रु संश्रु इति तालव्यं पठित्वा शृणोतिरुदाहृतस्तदनाकरम् । तथा च प्रयुअते- 'अनाश्रवावः किमहं कदापि वक्तुं विशेषात्परमस्ति शेषः' इति नैषधादौ । अमरोऽप्याह 'वचने स्थित श्रवः' इति । यदि तु सूत्रे अस्मिन् शृणोतेर्ग्रहणं स्यात्तर्हि 'ऋदोरप्' इति सामान्यविहितमपं बाधित्वा श्राङ्पूर्वकाच्छृणोतेर्विशेषविहित ण एव स्यात्, तथा च श्रव इति रूपं न स्यात्कित्वाभाव इति स्यादिति दिक् । लेहः श्लेष इति । 'इगुपधज्ञा-' इति कप्रत्यये गुणो न स्यादिति भावः । दुनोतेरिति । टुदु उपतापे इत्यस्मात् । दवतेरिति । दु गतावित्यस्मात् । दव इति ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy