SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तकौमुदी। [पूर्वकृदन्तदधः। पचे पचयमाणो णः। अनुपसर्गादित्येव । प्रदः। प्रधः । २६०२ ज्वलितिकसन्तभ्यो णः। (३-१-१४०) इतिशब्द प्राद्यर्थः । ज्वलादिभ्यः कसन्तेभ्यो वा णः स्यात् । पक्षेऽच् । ज्वालः, ज्वलः । चालः, चलः । अनुपसौदित्येव । उज्ज्वलः । 'तनोतेरुपसंख्यानम्' (वा १९७०)। इहानुपसर्गादिति विभाषेति च न संबध्यते । अवतनोतीत्यवतानः । २६०३ श्याव्यधासुसंस्वतीणवसावहलिहश्लिषश्वसश्च । (३-१-१४१) श्यैङ्प्रभृतिभ्या नित्य णः स्यात् । श्यैङोऽवस्थतेश्चाऽऽदन्तस्वात्सिद्धे पृथग्ग्रहणदाञ् , धाञ् श्राभ्यां शो वा स्यात् । ददः दध इति । शः, शप् 'श्लुः' 'लौ' इति द्वित्वम् , आतो लोपः। वक्ष्यमाण इति । 'श्याद्यध-' इत्यनेनेति भावः । प्रदः प्रध इति । 'पातश्चोपसर्गे' इति कः । ज्वलिति । आद्यर्थ इति । तथा च ज्वल इति श्रादिर्येषां ते ज्वलितयः, ते च ते कसन्ताश्चेति ज्वलितिकसन्ताः, तेभ्य इति विग्रहः, तदाह ज्वलादिभ्य इति । 'ज्वल दीप्तौ' इत्यारभ्य 'कस गतौ' इत्येवमन्तेभ्य इत्यर्थः । वा णः स्यादिति । विभाषेत्यनुवर्तते इति भावः । पतेऽजिति । इगुपधेभ्यः क; इत्यपि बोध्यम् । उपसंख्यानमिति। णस्यति शेषः । न संबध्यते इति । अवतान इत्येव भाष्ये उदाहरणादिति भावः । श्याद्वयधान । श्या, आत् , व्यध, आनु, संस्र, अतीण, अवसा, अवहृ, लिह, श्लिष, श्वस् एषामेकादशानां समाहारद्वन्द्वात्पञ्चमी । अनुपसर्गादिति निवृत्तम्, उत्तरसूत्रेऽनुपसर्गग्रहणात् । एवं च तत्संबद्धं विभाषाग्रहणं च नानुवर्तते, तदाह नित्यमिति । श्यैङ इति । श्यैधातोः अवपूर्वकस्य षोधातोश्च कृतात्त्वयोः इत्यर्थे कर्मण्यणो बाधनायेदम् । ददातिदधात्योविभाषा । ददः दध इति । श परे 'जुहोत्यादिभ्यः-' इति श्लुः ‘श्लौ' इति द्वित्वम्। अपित्सार्वधातुकस्य शस्य ङित्त्वाद् 'आतो लोपः-' इत्यालोपः । वक्ष्यमाणो ण इति । 'श्यायधा-' इति ण प्रत्यये आतो युकि । दायः । धायः। प्रदः प्रध इति । 'पातश्चोपसर्गे' इति कः । स्यादेतत्-दद दाने, दध धारणे, आभ्यामचि ददो दध इति सिद्धम् । दाधाभ्यामादन्तलक्षणे णप्रत्यये दायो धाय इत्यपि, ततश्चेदं सूत्रं व्यर्थमिति चेत् । सत्यम् । खरार्थमिदं सूत्रम् । अददः । अदधः । इह हि अव्ययपूर्वपदप्रकृतिस्वर इष्यते । अजन्तत्वे तु अजकावशक्तावित्यन्तोदात्तत्वं स्यात् । इतिशब्द आद्यर्थ इति । निपातानामनेकार्थत्वादिति भावः। श्यायधा । अनुपसर्गादिति निवृत्तम् । उत्तरसूत्रे पुनरनुपसर्गग्रहणात् । एवं च तत्संबद्धं विभाषाग्रहणमपि निवृत्तं तदाह नित्यमिति । इह सत्रे श्यैङ् गतावित्यस्य आत्वे श्या प्रात् इति प्रश्लेषो न तु शीडो
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy