SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६६] बालमनोरमा-तत्त्वबोधिनीसहिता [३६ सुखार्थः । सौत्रौ हेतुमएण्यन्तः। सातयः। वासरूपन्यायेन क्विपि सात्पर. मात्मा । सास्वन्तो भक्ताः । षह मर्षणे, चुरादिः । हेतुमएएयन्तो वा । साहयः । अनुपसर्गात् किम्-प्रलिपः। 'नौ लिम्पेवाच्यः' (वा १९६८)। निलिम्पा देवाः । 'गवादिषु विन्देः संज्ञायाम्' (वा १९६६)। गोविन्दः। अरवि न्दम् । २६०१ ददातिदधात्योर्विभाषा । (३-१-१३६) शः स्यात् । ददः । उदाहरति पश्य इति । 'पाघ्रा-' इति पश्यादेशः । घ्रः संज्ञायां नेति । घ्राधातोः संज्ञायां शो नेत्यर्थः । कुत इत्यत आह व्याघ्रादिभिरिति । अन्यथा व्याजिघ्रादिभिरिति निर्दिशदिति भावः । अनुपसर्गात् । शः स्यादिति । शेषपूरणम् । लिम्पः विन्द इति । 'लिप उपदेहे' 'विद्लु लाभे' इति तुदादौ, ताभ्यां शः, 'शे मुचादीनाम्' इति नुम् । सूत्रे कृतनुमौ लिम्पविन्दौ निर्दिष्टौ। अतस्तौदादिकयोरेव ग्रहणम् । धारय इति । 'धृञ् धारणे' 'धृङ अवस्थाने' आभ्यां हेतुमराण्यन्ताभ्यां शः, शप् , गुणायादेशौ । पारय इति । पृधातोः एयन्ताच्छः, शप् , गुणायादेशौ । विद वेदनाख्यादिषु । चुरादिण्यन्ताच्छः, शप् गुणायादेशौ । उदेजय इति । उत्पूर्वादेजधातोः ण्यन्ताच्छः, शप् , गुणायादशौ। चेतय इति । "चिती संज्ञाने' एयन्ताच्छः, शप् , गुणायादेशौ। एवं सातयः । सादिति रूपं साधयितुमाह वासरूपन्यायेन । किबिति । सातयति सुखयतीत्यर्थे कि , णिलोपः । यद्यपि क्विप् सामान्यविहितः सातेः शप्रत्ययस्तु तदपवादः । तथापि वासरूपविधिना किबपि भवतीत्यर्थः । सात्परमात्मेति । 'एष ह्येवानन्दयति' इति श्रुतेः । तस्य सुखयितृत्वावगमादिति भावः । सात्वन्त इति । सात् परमात्मा भजनीय एषामित्यर्थे मतुप । 'मादुपधायाः-' इति मस्य वः । 'तसौ मत्वर्थे' इति भत्वात् पदत्वाभावान्न जश्त्वम् । साहय इति । साहेः शः शप् , गुणायादेशौ । प्रलिप इति । इगुपधलक्षणः कः । नौ लिम्पेरिति । वार्तिकमिदम् । नि इत्युपसर्गे उपपद लिम्पेः शो वाच्य इत्यर्थः । अनुपसर्गादित्युक्तेः पूर्वेणाप्राप्तौ वचनम् । गवादिष्विति । वार्तिकमिदम् । गवादिषु उपपदेषु विन्देः शो वाच्य इत्यर्थः । संज्ञायामेवेति नियमार्थमिदम् । गोविन्द इति । गा उपनिषद्वाचः प्रमाणतया विन्दतीत्यर्थः । अर. विन्दमिति । चक्रे नाभिनेम्योरन्तरालपोतानि काष्ठानि अराणि तत्सदृशानि दलानि विन्दतीत्यर्थः । कर्मण्यणोऽपवादः शः। ददातिदधात्योर्विभाषा । मराण्यन्तः । इहोदाहरणेषु लिपिविदिभ्यां 'तुदादिभ्यः शः' 'शे मुचादीनाम्' इति नुम् । धार्यादिभ्यस्तु शब्गुणायादेशाः । अरविन्दमिति । चक्रस्य नाभिनेम्योरन्तराले स्थितानि काष्ठानि अराः तदाकाराणि दलानि तत्सादृश्यादरास्तान् विन्दति लभते
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy