________________
३८]
सिद्धान्तकौमुदी। [पूर्वकृदन्त(३-१-१३७) पिवतीति पिवः । जिघ्रः। धमः। धयः। धया कन्या। धेटष्टिस्वात् 'स्खनन्धयी' इति खशीव डीप्राप्तः । 'खशोऽन्यत्र नेष्यते' इति हरदत्तः । पश्यतीति पश्यः। 'घ्रः संज्ञायां न' (वा १९६७ )। 'ग्याघ्रा. दिभिः-' (सू ७३५ ) इति निर्देशात् । २६०० अनुपसर्गाल्लिम्पविन्दधारिपारिवधुदेजिचेतिसातिसाहिभ्यश्च । (३-१-१३८) शः स्यात् । लिम्पः। विन्दः। धारयः । पारयः। वेदयः। उदेजयः। चेतयः । सातिः पाघ्रा। पत्र 'लुम्विकरणालुग्विकरणयोरलुग्विकरणस्य ग्रहणम्' इति मत्वाह पिबतीति पिब इति । पाधातोः शप्रत्यये तस्य शित्त्वेन सार्वधातुकत्वात् 'पाघ्राध्मा-' इति पिबादेशः । स चादन्त इत्युक्तम् । शप् पररूपम् । जिघ्र इति । 'पाघ्रा-' इति घ्राधातोर्जिघ्रादेशः । धम इति । ध्माधातोर्धमादेशः । धय इति । धेटः शः, शप्, अयादेशः, पररूपमिति भावः । धया कन्येति । अत्र धेटधातुष्टित् स अदन्तो न भवति । यस्त्वदन्तो धयशब्दः, स न टित् । अतोऽत्र 'टिड्ढाणञ्-' इति न डीबिति भावः । धेटष्टित्त्वादित्यारभ्य हरदत्तमतम् । स्तनंधयीतीति । स्तनशब्दे उपपदे धेट्धातोः 'नासिकास्तनयोः-' इति खशि कृते 'खित्यनव्ययस्य' इति मुमि स्तनन्धयशब्दः । तत्र खशि कृते धेटष्टित्त्वमाश्रित्य यथा 'टिड्ढाण' इति डीप, तथा धया कन्येत्यत्रापि डीप् प्राप्तः । स डीप खशोऽन्यत्र नेष्यते इति हरदत्त आहेत्यर्थः । वस्तुतस्तु 'टिड्ढाणञ्-' इति सूत्रे टिदाद्यवयवाकारस्यैव ग्रहणमिति भाष्यविरोधादिदं चिन्त्यम् । न च टित्त्वसामर्थ्यादेव स्तनन्धयीशब्दाद् डीबिति वाच्यम्, धया कन्येत्यत्रापि डीप्रसङ्गात् खशोऽन्यत्र नेष्यते इत्यत्र प्रमाणाभावात् । तस्मात् स्तनन्धयीत्यप्रामाणिकमेव । तस्य प्रामाणिकत्वे गौरादित्वं कल्प्यम् , ङीष्यप्युदात्तनिवृत्तिस्वरप्राप्त्या स्वरे विशेषाभावाद् इति शब्देन्दुशेखरे स्थितम् । दृश श्रूयते च 'यदा पश्यः पश्यते रुक्मवर्णम्' इति । अनुपसर्गालिम्पविन्द । इह लिम्पविन्देति भाविना नुमा सनुम्कौ निर्दिष्टौ। तेन लाभार्थस्यैव विन्देर्ग्रहणं न तु सत्ताद्यर्थकानाम् । धारय इति । धृञ् धारणे, धृङ् अवस्थाने । ण्यन्तयोयोरपि प्रहणम् । अथ कथं 'न मधमत्रोत्तरधारयस्य ते' इति श्रीहर्षः। परत्वाद्धि सूत्रधारादिष्विव कर्मण्यणा भाव्यम् । तथा च वार्तिकम् 'अकारादनुपपदाकर्मोपपदो विप्रतिषेधेन' इति । सत्यम् । कर्मणः शेषत्वविवक्षायामणोऽप्राप्त्या शे कृते शेष. षष्ठपन्तेन समासो भविष्यति । एतेन गङ्गाधरभूधरजलधरादयो व्याख्याताः । पारय इति । पार कर्मसमाप्तौ चुरादिण्यन्तः । पृ पालनपूरणयोरिति वा हेतुमएण्यन्तः । वेदय इति । विद चेतनाख्यानादिषु चुरादिः, ज्ञानाद्यर्थानामन्यतमो वा हेतु