SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६६ ] बालमनोरमा तत्त्वबोधिनीसहिता । [ ३७ चराचरः । चलाचलः । पतापतः । वदावदः । ' हन्तेर्घत्वं च ' ( वा ३४३१ ) । घत्वमभ्यासस्य, उत्तरस्य तु 'अभ्यासाच्च' ( सू २४३० ) इति कुत्वम् । घनाघनः । 'पाटे िलुक्चोक्च दीर्घश्वाभ्यासस्य' । पाटूपटः । पत्ते चरः । चलः । पतः । वदः । हनः । पाटः । ' रात्रेः कृति - -' ( सू १००४ ) इति वा मुम् । रात्रिचरो रात्रिचरः । २८६७ इगुपधज्ञाप्रीकिरः कः । ( ३-१-१३५ ) एभ्यः कः स्यात् । क्षिपेः । लिखः । बुधः । कृशः । ज्ञः । प्रीणातीति प्रियः । किरतीति किरः । वासरूपविधिना वुल्तृचावपि । क्षेपकः, क्षेप्ता । २८६८ श्रतश्चोपसर्गे । ( ३-१-१३६ ) कः स्यात् । 'श्याद्व्यध -' ( सू २१०३ ) इति णस्यापवादः । सुग्लः । प्रज्ञः । २८६६ पाघ्राध्माधेदृशः शः । इन्तेरिति । वार्तिकमिदम् । हनधातोरचि घत्वं द्वित्वम् आक् चेत्यर्थः । ननु उत्तरखण्डे 'अभ्यासाच' इति कुत्वसिद्धेः किमर्थमिह घत्वविधानमित्यत श्राह घत्वमभ्यासस्येति । इह विधीयत इति शेषः । पारिति । वार्तिकमिदम् । पाटे पाटि इत्यस्माद् अचि गर्लुक्, द्वित्वम् । श्रभ्यासस्य ऊगागमः । अभ्यासस्य आका रस्य ह्रस्वे तस्य दीर्घश्चेत्यर्थः । वृद्धिनिवृत्तये लुग्विधिः । श्रागागमे दीर्घोच्चारगाद् इलादिशेषेण टकारस्य न निवृत्तिः, हलादिशेषे तु आद्गुणे पोपट इति रूपस्य उगागमेऽपि सिद्धेः । इगुपधज्ञा । 'कृ विक्षेप' इत्यस्य इत्त्वे रपरत्वे च किर् इति रेफान्तम् । इगुपध, ज्ञा, प्री, किर् एषां द्वन्द्वात्पञ्चमी । कित्त्वं गुणनिषेधार्थम् । ज्ञ इति । श्रतो लोपः । प्रिय इति । प्रीज् के इयङ् । किर इति । कृधातोः के इत्त्वे रपरत्वम् । श्रतश्चोपसर्गे । कः स्यादिति । शेषपूरणम् । उपसर्गे उपपदे श्रादन्ताद्धातोः कः स्यादिति फलति । णस्यापवाद इति । तस्य उपसर्गेऽनुपसँगै च आदन्तसामान्यविहितत्वाद् इति भावः । सुग्ल इति । ग्लैधातोः 'आदेचः-' इत्यात्वे कृते कप्रत्यये तो लोप इति भावः । प्रज्ञ इति । ज्ञाधातोरातो लोपः । 1 पाटेलुिगिति । 'रनिटि' इति लोपे हि प्रत्ययलक्षणन्यायेन पाटूपट इत्यत्रोपधावृद्धिः स्यादिति भावः । इहापि पूर्ववद्धस्वहलादिः शेषयोरभावः । इगुपध । इक् उपधा यस्य सः । ज्ञ| अवबोधने, प्रीज् तर्पणे, कृ विक्षेपे । एषामितरेतरयोग द्वन्द्वे व्यत्ययेन पञ्चम्येकवचने कृशब्दस्य धात्वनुकरणत्वेन प्रकृतिवदनुकरणमित्यतिदेशाद् 'ऋत इद्धातो:' इति इत्वम् । समाहारद्वन्द्वे तु नपुंसकहस्वत्वे सति इत्वं न स्यात् । शइति । जानातीति ज्ञः, 'आतो लोप इटि च' इत्यालोपः । पाघ्राध्मा । पापाने । पा रक्षणे इत्ययं तु न गृह्यते लुग्विकरणत्वात् । इह सूत्रे उपसर्ग इति केचिदनुवर्तयन्ति तद्बहूनामसंमतम् । तथा च श्रीहर्षः 'फलानि धूमस्य ध्यानधोमुखान्' इति ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy