SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ३६ ] सिद्धान्तकौमुदी। [ पूर्वकृदन्तचिरप्रपञ्चार्थः। केषांचिद्धाधकबाधनार्थः । पचतीति पचः। नदट् चोरट् देवट इत्यादयष्टितः। नदी। चोरी। देवी, दीग्यतेः 'इगुपध--' (सू २८९७) इति कः प्राप्तः। जारभरा । श्वपचा । अनयोः 'कर्मण्यण' (सू २११३) प्राप्तः । न्यकादिषु पाठाच्छ्वपाकोऽपि 'यडोऽचि च' (२६५०) इति गुणवृ. द्धिनिषेधः। चेक्रियः। नेन्यः । लोलुवः पोपुवः । मरीमृजः। 'चरिचलिपतिवदीनां वा द्विस्वमग्याक्चाभ्यासस्येति वक्तव्यम्' ( वा ३४३०)। आगागमस्य दीर्घस्वप्सामर्थ्यादभ्यासहस्वो 'हलादिः शेषः' (सू २१७६ ) च न । देराकृतिगणत्वे नदट् चोरट् इत्यादीनां तत्र पाठो व्यर्थ इत्यत आह केषांचिदिति। टकारानुबन्धासञ्जनार्थ इत्यर्थः । नन्वेवमपि वद चल इत्यादीनां अनुबन्धरहितानां तत्र किमर्थः पाठ इत्यत आह केषांचित्प्रपञ्चार्थ इति । बाधकेति । जारभर श्वपच इत्यादौ पचाद्यजपवादस्य कर्मण्यणो बाधनार्थ भरपचादीनां पाठ इति भाष्यम् । देवः सेव इत्यादौ 'इगुपधज्ञाप्रीकिरः कः' इति विशिष्य विहितस्य कस्य बाधनार्थ च । तदेतदुपपादयति-नदडित्यादि। ननु पचांदिगण श्वपचशब्दस्य बाधकबाधनार्थत्वे श्वपाक इति कथमित्यत आह न्यङ्कवादिषु पाठाच्छपाको. उपीति । कदाचिदण्प्रत्ययः कुत्वं चेत्यर्थः । चेकियः, मरीज इत्यादौ प्रक्रियां दर्शयति योऽचि चेति। क्रीआदिधातोरचि यङो लुगित्यर्थः। द्वित्वादौ चेकी श्र इत्यादिस्थिती पाह-न धातुलोप इति । चेकिय इति । गुणाभावे संयोग. पूर्वत्वान्न यण । नेन्य इति । 'एरनेकाचः-' इति यण । लोलुव इति । उवङ् । यण्तु न, 'ओः सुपि' इत्युक्तेः। मरीमृज इति । अत्र 'न धातुलोपे-' इति निषेधाद् मृजेईद्विः। चरिचलीति। एषाम् अच्चत्यये परे द्वित्वम्,अभ्यासस्य भागागमश्चत्यर्थः। ननु चराचर इत्यत्राभ्यासे रफादाकारस्य ह्रस्वः स्यात् , हलादिशेषेण तत्र रेफस्यापि निवातेः स्यादित्यत आह आगागमस्येति । ह्रस्वत्वे सत्यागागमे दीर्घोच्चारणं व्यर्थम् , अगागमस्यैव विधातुं शक्यत्वात् । तथा हलादिशेषेण रेफस्य निवृत्ती ह्रख. त्वेऽपि सवर्णदीर्पण चाचर इति सिद्धेः दीर्घोचारणं हलादिशेषाभावं गमयतीत्यर्थः । तेस्रहणारिणन्यन्तसिनोतेनिपातनं विना षत्वं दुर्लभमिति भावः । जारभरेत्यादि । जारं विभर्ति, श्वानं पचतीति विग्रहः । श्वपाकोऽपीति । कर्मण्यणपि पक्षे भवतीति भावः । चेकिय इति । संयोगपूर्वत्वाद् ‘एरने काचः-' इति न यस् । लोलुव इति । इह सुबभावाद् 'श्रोः सुपि' इति यरनेति 'अचि श्नुधातु-' इत्युवङ् । मरीमृज इति । 'रीगृदुपधस्य च' इति रीगागमो हलादिःशेषश्च नेति । सति तु हलादिःशेष आगमस्य आदेशस्य वा विशेषो नास्तीत्यचा चाभ्यासस्येत्येव ब्रूयादिति भावः ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy