________________
प्रकरणम् ] सुबोधिनी-शेखरसहिता। [५६३ उदके परे पूर्वमन्तोदात्तम् । गुडोदकम् । स्वरे कृतेऽत्र एकादेशः। 'स्वरितो वानुदात्ते पदादी' (३६५६) इति पक्षे स्वरितः । अकेवले किम्-शीतोदकम् । ३८३१ द्विगौ तौ। (६-२-६७) द्विगावुत्तरपदे ऋतुवाचिनि समासे पूर्वमन्तोदात्तम् । गाँवरात्रः। द्विगौ किम्-अतिरात्रः। ऋतौ किम्-बिरुवा होमस्य सप्तरात्रो बिश्वाससरात्रः । ३८३२ सभायां नपुंसके। (६-२-८९) सभायां परतो नपुंसकलिङ्ग समासे पूर्वमन्तोदात्तम् । गोपालसभम् । स्वीसभम्। सभायां किम्-ब्राह्मणसेनम् । नपुंसके किम्-राजसभा। प्रतिपदोकनपुंसक ग्रहणाचेह । रमणीयसभम् ब्राह्मणकुलम् । ३८३३ पुरे प्राचाम् । (६-२-६६) देवदत्तपुरम् । नान्दीपुरम् । प्राची किम्-शिवपुरम् । ३८३४ अरिष्टगौडपर्वे च । (६-२-१००) पुरे परे भरिष्टगौडपूर्वसमासे पूर्वमन्तोदात्तम् । अरिष्ट. पुरम् । गौरपुरम्। पूर्वग्रहणं किम्-इहापि यथा स्यात् । अरिष्टाश्रितपुरम् । दाहरणम् । उदके । अकेवल इति पदच्छेदः । श्रन्यथाऽसंदेहाथ केवल उदक इत्येव ब्रूयातदाह अकेवलं मिश्रमिति । द्रव्यान्तरसंपृक्तं मित्रम् । गुडोदकमिति । गुडमिश्रमुदकं गुडोदकम् । शीतोदकमिति कर्मधारयः। गर्गत्रिरात्रमिति । षष्ठी. समासः। तिमृणां रात्रीण समाहारस्त्रिरात्रम् । 'अहःसर्वेकदेश-' इत्यादिनाऽच् समासान्तः । 'संख्यापूर्व रान क्लीबम्' इति क्लोबत्वम् , एवं सप्तरात्र इति । रात्रिमतिक्रान्त इति प्रादिसमासः । बिल्वसप्तरात्रमित्यत्र विल्वशब्दो बिल्वहोमे वर्तते तेन सह षष्ठीसमासः । गोपालसमिति। 'अशाला च' इति क्लीबत्वम् । प्रतिपदोक्नेति। 'सभा राजा-' इत्यादिविहितम् । रमणीयसभमिति। रमणीया सभा यस्येति बहुव्रीहिः । अत्राभिधेयवशानपुंसकत्वं न प्रतिपदोक्तम् । पुरे प्रा। पुरशब्दे परे प्रार्चा देशे पूर्वपदमन्तोदात्तं स्यात् । अरिष्ट । पूर्वग्रहणं किमिति । अरिष्टगोडयोरिति वक्तव्यमिति प्रश्नः । इहापि यथा स्यादिति । पूर्वग्रहणे हि सति बहुव्रीहिलभ्यते। अरिष्टगौडौ पूर्वी यस्मिन्समास इति । तेनारिष्टाश्रितपुरं गौडभृत्यपुरमित्यत्रापि पूर्वपदमन्तोपूर्वपदविशेषणमिति सूचितः । स्वरे कृते इति । 'नेन्द्रस्य'ति निषेधेन पूर्वोतरपदनिमित्तकार्यात्पूर्वमेकादेशाऽभावज्ञापनादिति भावः । गर्गत्रिरात्रमिति । सङ्ख्यापूर्व रात्रं क्लीब'मिति क्लीबता । पुल्लिङ्गपाठस्तु क्वाचित्कः प्रामादिकः । एवं बिल्वसप्तरात्रमित्येव पाठः । प्रतिपदोक्तेति । 'सभा राजे'ति विहितेत्यर्थः । प्रत्यु. दाहरणे बहुव्रीहिः, ब्राह्मणकुलं विशेष्यम् । पुरे प्राचाम् । स्वतन्त्राऽकारान्त. पुरशब्दस्य, 'ऋपूरित्यप्रत्ययान्तस्य च प्रहणम् , अविशेषात् , अप्रत्ययान्तस्यापि परत्वसम्भवात् , नत्यत्रोत्तरपदाधिकारोऽस्तीत्याहुः । इहापीति । 'अरिष्टगौडे'त्येव