SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ ५६२ ] सिद्धान्तकौमुदी। [ समासस्वरययोः। (६-२-१४) एतयोः परतः पूर्वमन्तोदातम् । मञ्जनागिरिः । मौगिड. निकायः । संज्ञायां किम्-परमगिरिः ब्राह्मणनिकायः । ३८२६ कुमार्यों वयसि । (६-२-६५) पूर्वपदमन्तोदात्तम् । वृद्धकुमारी । कुमारीशम्दः पुंसा सहासंप्रयोगमानं प्रवृत्तिनिमित्तमुपादाय प्रयुको वृद्धादिभिः समानाधिक. रणः। तच वय इह गृह्यते न कुमारस्वमेव । वयसि किम्-परमकुमारी। ३८३० उदकेऽकेवले । (६-२-६६) अकेवलं मिश्रं तद्वाचिनि समासे गुणिकात्स्न्ये वर्तमानो न गुणकात्स्न्थे । सर्वेषामिति गुणसंबन्धे वष्टी । पटस्य शौकयमितिवद् गुणवाचिन एव प्रत्ययः । सर्वेषां पटानां द्रव्यान्तराधारश्वेतगुणापेक्षया सातिशयः श्वेतो गुण इत्यर्थः । यदा तु प्रतिपदोक्तत्वात् 'पूर्वकालैक-' इति समासो गृह्यते तदा कार्यग्रहणं मास्तु । अञ्जनागिरिरिति । 'वनगिर्योः संज्ञायाम्' इति दीर्घः । कुमार्याम् । कुमारीशब्दे परे पूर्वपदमन्तोदात्तं स्याद्वयसि द्योत्ये। वृद्ध. कुमारीति । विशेषणसमासः । 'पुंवत्कर्मधारय-' इति पुंवद्भावः। ननु कुमारी. शब्दः प्रथमे वयसि वर्तते तथा च 'वयसि प्रथमे' इत्यनेन बीबत्र विहितः, तस्य कथं चरमवयोवाचिना वृद्धेन सामानाधिकरण्यमत आह कुमारीत्यादि । कुमारीशन्दे द्वयं प्रवृत्तिनिमित्तं प्रथमं वयः पुंसा सहासंप्रयोगश्चतत्राद्यमर्थ त्यक्त्वा द्वितीयमात्रे वर्तते तदा वृद्धादिसामानाधिकरण्यं भवति । तदाह तश्चेति । शब्दान्तराभिधेयमित्यर्थः । न कुमारत्वमेवेति । यदेतत्कुमारीशब्दस्य प्रवृत्तिनिमित्तं तद्वयो न गृह्यत इत्यर्थः । एतच्च वयोग्रहणसामल्लिभ्यते । अन्यथा कुमारीशब्दप्रयोगे नियोगतः प्रथमं वयो गम्यत इत्यनर्थकं स्यात् । ननु तर्हि डोबपि न स्यादिति चेच्छृणु। पूर्व हि प्रथम वयः प्रवृत्तिनिमित्तं कृत्वा डीप् कृतः सोऽन्तरमो वृद्धादिसामानाधिकरण्येऽपि न निव. तते । परमकुमारीति । अत्र कुमारत्वमेव गम्यते न वयोन्तरमिति भवति प्रत्युमत्र । सर्वेषामिति । गुणिकान्यवृत्तिः सर्वशब्दोऽत्र । 'गुणात्तरेणे'ति समासः । सर्वेषां पटानां मध्ये श्वेतगुणवद्व्यान्तरापेक्षया सातिशयश्वेतगुणवानयमित्यर्थः । दव्यान्तराधेयश्वेतापेक्षया सर्वेषां पटानामयं श्वेतो गुणः सातिशय इत्यर्थ इत्यन्ये । अञ्जनागिरिरिति । 'वनगिर्यो'रिति दीर्घः । गिरील्यादि किम् ? शरवणम् । दूर्वावणम् । दूर्वावनम् । कुमार्यां वयसि । वयसि वर्तमानं पूर्वपदमित्यर्थः । वृद्ध. कुमारीति । विशेषणसमासः । 'पुंवत्कर्मधारयेति पुंवत् । असंप्रयोगमात्रेति । त-मात्रण कुमारत्वरूपं प्रवृत्तिानमित्तमुपादायारोप्य प्रयुक्त इत्यर्थः । अत एव कुमारीत्यत्र कीप्सद्धिः । तच्च वय इति । वृद्धत्वमित्यर्थः । न कुमारत्वमेवेति । यत्कुमारीशब्दस्य प्रवृत्तिनिमित्तं न तदेव वयो गृह्यत इत्यर्थः । एवञ्च वयसीति
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy