SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता। [५६१ २-६१ ) अर्मे परे नैतान्यायुदात्तानि । भूतार्मम् । अधिनामम् । सजीवामम् । मद्राश्मग्रहणं संघातविगृहीतार्थम् । मद्रामम् । अश्मामम् । मद्राश्मामम् । कजलार्मम् । प्रायुदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानम्। दिवोदासाय दाशुषे'। ३८२६ अन्तः। (६-२-६२) अधिकारोऽयम् । प्रागुत्तरपदादिग्रहणात् । ३८२७ सर्व गुणकात्स्न्यें । (६-२-६३) सर्वशब्दः पूर्वपदमन्तोदात्तम् । सर्वेश्वतः । सर्वमहान् । सर्वे किम्-परमश्वेतः। प्राश्रय. ग्याप्रया परमस्वं श्वेतस्येति गुणकात्स्न्ये वर्तते। गुणेति किम् सर्वसौवर्णः । कास्न्ये किम्-सर्वेषां श्वेततरः सर्वश्वेतः। ३८२८ संज्ञायां गिरिनिका. वचनोऽकारान्तः । संघातविगृहीतार्थमिति । मद्रशब्दस्य केवलस्य मदाश्मशब्दस्य संघातस्य च तस्य प्रतिषधार्थः । मद्राश्माममिति । 'अनोश्मायःसरसा जातिसंज्ञयोः' इति समासान्ते कृते अवन्तिमेतत् । तदेव मद्रार्मम् । मद्राश्माममिात द्वे एवोदाहरणे । प्रायेण अश्मार्ममिति तृतीयमप्युदाहरणं पठ्यते तवृत्त्यनुरोधादु. क्तम् । अश्मशब्दस्यानकारान्तत्वम् । न च नलोपे कृतेऽवान्तत्वम् । स्वरविधी नलोपस्यासिद्धत्वात् । अपरे तु मद्राश्मग्रहणं संघातविगृहीतार्थमित्यस्य भाष्येऽदर्शनाद. संगतमेतदित्याहुः। दिवोदासायेति । 'दिवश्च दासे' इति षष्ठया अलुक् । अन्तः। अत्रापि प्रकरणे पूर्वपदविषया प्रथमा षष्ठयर्थे वेदितव्या। सर्व गुण । गुणकात्स्न्ये वर्तमानः सर्वः अन्तोदात्तः, यत्र गुणान्तरस्याभावस्तत्र गुणकात्स्न्य भवति । सर्वश्वेत इति। 'पूर्वकालैक-' इत्यादिना कर्मधारयः। अत्र शौक्लयेन गुणेन सर्वावयवानां व्याप्तिर्गम्यते । आश्रयव्याप्त्यति । नतूज्ज्वलत्वेन । सर्वसौवर्ण इति । विकारविषयमात्रं काय॑म् । सर्वश्वेत इति । 'गुणात्तरेण तरलोपश्च' इति समासः तरप्रत्ययलोपश्च । कात्स्न्य किमिति । गुणवाचिन्युत्तरपदे व्यभिचरतीति प्रश्नः । नियमः कर्मधारये न षष्ठीसमास इत्याह सर्वेषामिति । अकारान्तः । महाममित्यत्राऽऽस्वे कृते प्राप्तिः । न भू। मद्राश्मस्य 'अनोsश्मायः' इति टजन्तत्वादवर्णान्तत्वम् । सङ्घातेति । स्वरविधौ नलोपस्याऽसिद्धत्वे. नाश्मनोऽवर्णान्तत्वाऽभावादप्राप्ते ध्येऽनुक्लत्वाच वृत्त्युक्तमिदं चिन्त्यम् । 'वृत्तिप्रामाण्यादयमश्मशब्दोऽकारान्तोप्यस्ती' त्यन्ये। दिवोदासायेति । 'दिवसश्च दासे' इति षष्ठया अलुक् । सर्वश्वेत इति । श्वेतादिगुणेन सर्वावयवानां व्याप्तिरिति गुणकात्यत्तिरत्र सर्वशब्दः । यत्र हि गुणाऽन्तराऽभावस्तत्र गुण कात्स्न्यं भवति । 'सर्वमहा'नित्यत्र सर्वशब्दस्य पूज्यमानार्थत्वाऽभावात् 'पूर्वकाल के 'त्येव समासः । आश्रयव्याप्त्येति । न तूज्ज्वलत्वेनेत्यर्थः । सर्वसौवर्ण इति । विकारकायै
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy