SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता। [ ५५६ दीर्घकाशतुषभ्राष्ट्रवटं जे । (६-२-८२) कुटीजः। काशजः । तुषजः । भ्राष्ट्रजः । वटजः । ३८१७ अन्त्यात्पूर्व बह्वचः। (६-२-८३ ) बह्वचः पूर्वस्यान्त्यात्पूर्वपदमुदात्तं जे उत्तरपदे । उपसरजः । पामलकीजः । बह्वचः किम्-दग्धजानि तृणानि। ३८१८ ग्रामेऽनिवसन्तः । (६-२-८४ ) ग्रामे परे पूर्वपदमुदात्तम् । तश्चेन्निवसद्वाचि न । मल्लग्रामः । ग्रामशब्दोऽत्र समूहवाची। देवप्रामः । देवस्वामिकः। अनिवसन्तः किम्-दाक्षिप्रामः । दाक्षिनिवासः।३८१६ घोषादिषु च । (६-२-८५) दाक्षिघोषः । दाक्षिकटः । दाक्षिहदः । ३८२० छात्र्यादयः शालायाम् । (६-२-८६) छात्रिशाला । व्याडिशाला । यदापि यम् । दीर्घकाश। दीर्घान्तं पूर्वपदं काशादीनि च पूर्वपदानि अायुदात्तानि स्युर्जे उत्तरपदे । कुटीज इति 'सप्तम्यां जनेडः' । उपसरज इति । स्त्री गवादिषु पुंसां गर्भाधानाय प्रथममुपसरणमुपसरः । 'प्रजने सर्तेः' इत्यप् । तत्र जात उप. सरजः । आमलकीज इति । दीर्घकाश-' इति बाधित्वा परत्वादयं स्वरः । ग्रामे। सूत्रे निवसत्यस्मिन्निति निपूर्वाद्वसेः 'नृवसिवहिभासिसाधिगडिमण्डिनिनन्दिभ्यश्च' इति भच् । मल्लग्राम इति । षष्टीसमासः । दाक्षिग्राम इति । दाक्षयो निवसन्त्यस्मिन्स उच्यते । घोषा । घोषादिवृत्तरपदेषु पूर्वपदमाद्युदात्तम् । अत्र निवसन्त इति केचिदनुवर्तयन्ति । अपरे नानुवर्तयन्ति । तथा च दाक्षीणां घोषो निवासस्थानमित्यर्थे दाक्षिघोषशब्दे श्रायुदात्तत्वं न भवति। मतान्तरे भवति । छात्र्यादयः। परे तु समर्थसूत्रे-'एतच्छन्दपाठेन नेहार्थः । इगन्ते द्विगावित्यस्य बाधकत्वान्न स्वरे दोष' इत्युक्तम् । तेन द्विशितिपादित्यत्रापि द्विशब्दस्वर एवेति लभ्यते। अत एव निमित्तिस्वरबलीयस्त्वं वाचनकमिति कैयटेनोक्तम् । सतिशिष्टन्यायसिद्धमिति त्वन्यदित्याहः । पात्रेसमितादयोऽप्यत्र बोयाः । अधिकशतवर्षशब्दोऽप्यत्र पठनीय' इति समर्थसूत्रे भाष्यम् । अयमाकृतिगणः । दीर्घकाश । दीर्घान्तं काशादीनि च जे परे श्रायुदात्तानीत्यर्थः । दीर्घादिति किम् ? बुद्धिजः । जे किम् ? शमीवृक्षः। कृत्स्वरापवादोऽयम् । अन्त्यात्पूर्वम् । आमलकीजः' इत्यत्र 'दीर्घकाशे ति बाधित्वा परत्वादयमेव स्वरः । तच्चेदिति । पूर्वपदश्चेदित्यर्थः । निवसत् निवासकर्तृ । सूत्रे व्यत्ययेन बहुवचनम् । केचित्त्वधिकरण औमादिकझजन्तं समासविशेषणमि. त्याहुः । मल्लग्रामादी षष्ठीसमासः । दाक्षिग्रामः । दाक्षयो निवसन्त्यस्मिन्स एवमुच्यते । घोषादि । एषु पूर्वपदमायुदात्तमित्यर्थः । घोष, कट, पल्वल, ह्रद, बदरी, पिङ्गल, पिशा, माला, शाला, रक्षा, कूट, शाल्मलि, अश्वत्थ, तृण, शिल्पी, मुनि, प्रेक्षा, अत्राऽनिवसन्त इत्यनुवर्तत इत्येके । नानुवर्तत इत्यन्ये । छान्यादयः।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy