________________
५५८ ]
सिद्धान्तकौमुदी ।
: समासस्वर
८०) उपमानवाचि पूर्वपदं णिन्यन्ते परे श्रायुदात्तम् । उष्ट्रक्रोशी । ध्यातरावी । उपमानग्रहणस्य पूर्वयोगस्य च विषयविभागार्थम् । शब्दार्थप्रकृतौ किम् - वृकचञ्ची । प्रकृतिग्रहणं किम्- प्रकृतिरेव यत्रोपसर्गनिरपेक्षा शब्दार्थां तत्रैव यथा स्यात् । इह मा भूत् । गर्दभोबारी । ३८१५ युक्तारोह्यादयश्च । ( ६-२-६१ ) श्राद्युदात्ताः । युक्तारोही । श्रागतयोधी । चीरहोता । ३८१६ बन्धनरज्जुः । णिनि। णिन्नन्ते उत्तरपदे पूर्वपदमायुदात्तम् । उपमानम् । उष्ट्रको शीत्यादि । 'कर्तर्युपमाने' इति णिनिः । शब्दार्थ कृतौ किमिति । सूत्रं किमर्थमित्यर्थः । वृकवञ्चीति । कृत्स्वर एव भवति । प्रकृतिरेवेत्यादि । श्रसति प्रकृतिग्रहणे शब्दार्थात्परो गिनिस्तदन्त उत्तरपदे इत्यर्थो विज्ञायेत । तथा च यत्रापि धातूपसर्गसमुदायाच्छब्दार्थात्परो गिनिस्तत्रापि स्यात् । ' कृद्प्रहणे गतिकारक - पूर्वस्यापि ग्रहणम्' इति परिभाषया णिन्नन्तोत्तरपदत्वानपायात् । प्रकृतिप्रहणे तु न भवति । योऽत्र धातुर्नासौ शब्दार्थः । यश्च शब्दार्थो धातूपसर्गसमुदायो न ततो णिनिर्विहित इति भावः । एव किम् ? शब्दार्थप्रकृतौ उपमानमेवेत्येवं नियमो मा भूत् । युक्तारोह्या । युक्तारोह्यादयः समासा श्राद्यदात्ताः स्युः । युक्तारोहीत्यादि । अत्र णिनीत्येव सिद्धे पूर्वोत्तरपदनियमार्थ सूत्रम् । यत्र युक्तादीन्येव पूर्वपदानि आरोह्यादीन्येवोत्तरपदानि तत्रैव यथा स्यादित्यर्थः । क्षीरहोतेति । याजकादित्वात् षष्ठीसमासोऽयम् । समासस्वरापवादे कृत्स्वरे प्राप्ते तदपवाद मनूक्तिन्निति तदपवादो ऽ
।
शब्दार्थकधातुप्रकृतिके एव णिन्यन्ते परे इत्यर्थः । उष्ट्रक्रोशीति । उष्ट्र इव क्रोशतीस्याद्यर्थे 'कर्तर्युपमाने' इति णिनिः । एवेति किम् ? 'उपमानमेवेत्येवं नियमो मा भूत् । तथा च 'सार्ध्वध्यायी' त्यादौ पूर्वेणायुदात्तता न स्यात्, 'ढकव॒श्ची'त्यत्र च स्यादिति बोध्यम् । युक्लारोह्यादयश्च । एते समासा एव गणे पठयन्ते । युक्तारोहीति । एषु 'णिनी'त्येव सिद्धे युक्तादीन्येव पूर्वपदानि श्रारोह्यादीन्येवोत्तरपदानीत्येवं पूर्वपदोत्तरपदनियमार्थमिदमिति केचित् । श्रसञ्ज्ञार्थमित्यन्ये । क्षीर होतेति । अत्र समासस्वराऽपवादे कृत्स्वरे प्राप्ते, तदपवादे 'मन्तिन्निति प्राप्ते, तदपवादोऽयम् । एकशितिपाच्छब्दोऽत्र पठ्यते । तत्रैकः शितिः पादोऽस्येति त्रिपदे बहुव्रीहौ अवान्तरतत्पुरुषः । नन्ववान्तरतत्पुरुषे समासान्तोदात्तत्वं बाधित्वा 'इगन्ते 'ति पूर्वपदप्रकृतिस्वरेणाऽऽयुदात्तत्वं सिद्धमेकशब्दस्य कन्नन्तत्वादिति चेन्न, उत्तरपदे शित्यन्तस्य द्विगुस्वराऽभावज्ञापनार्थत्वात् । तेन द्विश॒तिपादित्यत्र तिशब्द एवोदात्तः । नन्वेवमपि समासान्तोदात्तत्वं बाधित्वा बहुव्रीहिनिमित्त पूर्वपदप्रकृतिस्वरत्वं भविष्यतीति व्यर्थ एव पाठ इति चेन्न, निमित्तिस्वरबलीयस्त्वस्यापि ज्ञापनात् । फलं तूक्तमेवेति केचित् ।
1