________________
प्रकरणम् ] सुबोधिनी-शेखरसहिता । [५५७ 'संज्ञायाम्' ( ३२८६) इति एखुल् । प्राचां किम्-जीवपुत्रप्रचायिका । इयमुदीच क्रीडा । क्रीडायां किम्-तव पुष्पप्रचायिका । पर्याये वुल् । ३८०६ . अणि नियुक्ते । (६-२-७५) अण्णन्ते परे नियुकवाचिनि समासे पूर्वमायुदात्तम् । छत्रधारः। नियुक्त किम्-काण्डलावः । ३८१० शिल्पिनि चाऽकृञः। (६-२-७६) शिल्पिवाचिनि समासे अण्णन्ते परे पूर्वमायुदात्तं स चेदण कृमः परो न भवति । तन्तुवायः। शिल्पिनि किम्-काण्डलावः । अकृतः किम्कुम्भकारः । ३८११ संज्ञायां च । (६-२-७७) अण्णन्ते परे । तन्तुवायो नाम कृमिः । प्रकृन इत्येव । रथकारो नाम ब्राह्मणः । ३८१२ गोतन्तियवं पाले । (६-२-७८) गोपालः । तन्तिपालः । यवपालः । अनियुक्वार्थो योगः । गो इति किम्-वत्सपालः । पाले इति किम्-गोरक्षः । ३८१३ णिनि । (६-२-७६ )पुष्पहारी । ३८१४ उपमानं शब्दार्थप्रकृतावेव । (६-२उद्दालकपुष्पभञ्जिकति । 'नित्यं क्रीडा' इति समासः । अणि नियक्त। युजिर योगे इत्यस्य नियुक्त इति रूपम् । नियुक्त अधिकृतः स च कस्मिंश्चित्कर्तव्ये तत्परो न गवतीति नियुक्त इत्यनेन सिध्यति । युक्त इति सूत्रे हि युज समाधौ दिवादिरात्मनेपदी गृह्यते। समाधिस्तत्परता। अत्र रौधादिकस्य स्वरितेतो ग्रहणम, योगः संबन्धमात्रम् । छत्रधार इति । कर्मण्यम् । शिल्पि । नियुक्ते चेत्येव सिद्धे कृषः प्रतिषेधार्थ वचनम् । तन्तुवाय इति । 'हावामश्च' इत्यण् । आतो युक् । संज्ञायाम् । संज्ञायां विषयेऽणन्ते उत्तरपदे पूर्वपदमायुदात्तं स्यात् स चेदण कृो न भवति । गोतन्ति । गोतन्तियवशब्दा श्राद्युदात्ताः स्युः पालशब्दे परे । गोपाल इति। गाः पालयतीति विप्रहः। तन्तिपाल इति। तनु विस्तार क्विन् । तन्तिवत्सानां लाक्षणिकमित्याह प्राग्देशवर्तिनामिति । अजीविकार्थमिदम् । उद्दालकत्यादौ 'नित्यं क्रीडे'ति समासः । तव पुष्पेति । षष्ठीसमारः। नियुक्त इति । अधिकृत इत्यर्थः । स च कस्मिंश्चित्कर्तव्ये तत्परो न भवतीति ‘युक्त' इत्यनेन न सिद्धयति। शिल्पिनि चा। 'युक्त चे'त्येव सिद्ध कृत्रः प्रतिषेधार्थ वचनम्। सज्ञायाम् । अत्राऽणोति 'शिल्पिनि चाऽकृषः' इति वर्त्तते । अयुक्तार्थमनियुक्वार्थम् , कृषः प्रतिषे. धार्थञ्च वचनम् । गोतन्ति । पालशब्दे परे एते अायुदात्ता इत्यर्थः । वत्सानां बन्धनरज्जुस्तन्तिः । णिनि । णिन्यन्ते उत्तरपदे पूर्वमायुदात्तमित्यर्थः । अत्र सज्ञाग्रहणमनुवर्तते इति 'व्रते' इति सूत्रे भाष्यादौ । तेनाऽश्राद्धभोजीत्यादौ न । अत्र कृत्स्वर एव । उत्तरसूत्रस्थभाष्यात्तु नानुवर्तते इति प्रतीयते । तत्त्वन्त्वत्र ऋषयो विदुः । वस्तुत उत्तरसूत्रेऽपि संज्ञायामित्यस्य संबन्धे न कश्चिद्दोषः। उपमानम् ।