________________
५५६ ]
सिद्धान्तकौमुदी ।
[ समासस्वर
३८०५ भक्ताख्यास्तदर्थेषु । ( ६-२-७१) भक्रमन्नम् । भिक्षाकंसः | भाजीकंसः । भिक्षादयोऽन्नविशेषाः । भक्लाख्याः किम् - समाशशालयः । समशनं समाश इति क्रियामात्रमुच्यते । तदर्थेषु किम् - भिक्षाप्रियः । बहुव्रीहिरयम् । अत्र पूर्वपदमन्तोदात्तम् । ३८०६ गोबिडालसिंह सैन्धवेषूप माने । ( ६-२-७२ ) धान्यगवः । गोबिडालः । तृणसिंहः । सक्तुसैन्धवः । धान्यं गौरिवेति विग्रहः । व्याघ्रादिः । गवाकृत्या सनिवेशितं धान्यं धान्यगवशब्देनोच्यते । उपमाने किम् - परमसिंहः । ३८०७ के जीविकार्थे । ( ६-२-७३) दन्तलेखकः । यस्य दन्तलेखनेन जीविका । 'नित्यं क्रीडा' ( ७११ ) इति समासः । के किम् - रमणीयकर्ता । जीविकार्थे किम्-इसुभक्षिकां मे धारयसि । ३८०८ प्राचां क्रीडायाम् । ( ६-२-७४) प्राग्देशवाचिनां या क्रीडा तद्वाचिनि समासे अकप्रत्ययान्ते परे पूर्वमाद्युदात्तं स्यात् । उद्दालकपुष्पभञ्जिका । तादर्थ्ये चतुर्थीसमासस्तु न भवति प्रकृतिविकार एव तस्येष्टत्वात् । बहुव्रीहिरिति । तत्पुरुषश्चेदन्तोदात्तः । गोबिडाल । उपमानशब्दे प्रत्येकं संबन्धादेकवचनम् । गवादिषूपमानवाचिषूत्तरपदेषु पूर्वपदमायुदात्तं स्यात् । धान्यगव इति । अत्रोपमितसमासे 'गोरतद्धितलुकि ' इति टच् । अत्र पूर्वपदाद्युदात्तविधानसामर्थ्यादृचश्चित्स्वरो बाध्यते । उपमानार्थी यो यत्रोदाहरणे यथा संभवति स तथा योजयितव्यः । तत्र दिङ्मात्रं दर्शयति । गवाकृत्येत्यादि । श्राकृतिः संस्थानम् । सन्निवेशितं व्यवस्थापितम् । एवमन्यत्रापि यत्किचित्सादृश्यं योजयितव्यम् । के । जीविकार्थवाचिनि समासे प्रकप्रत्ययान्ते उत्तरपदे पूर्वपदमायुदात्तं स्यात् । दन्तलेखक इति । 'वुल्तृचौ' इति वुल् । प्राचाम् । प्राचां क्रीडायामिति श्रुतयोरेवान्वयसंभवान्मतेनेत्यध्याहारो न युज्यत इति तत्राह प्राग्देशवर्तिनां या क्रीडेति । श्रजीविकार्थमिदम् । आसवो-न -न मद्यम् । भक्ताख्यास्त । भक्तशब्दोऽत्र प्रदनीयवस्तुमात्रपरः । भिक्षाकंसादयः - षष्ठीसमासः । बहुवचनात्स्वरूपविधिनिरासे सिद्धे श्राख्योक्तिराद्यविशेषस्य भिक्षादेर्ग्रहणार्थेत्याहुः । क्रियामात्रमिति । न द्रव्यमित्यर्थः । बहुव्रीहिरिति । षष्ठीसमासे त्वन्तोदात्तत्वम् । गोबिडाल । उपमानार्थेष्वेषूत्तरपदेषु पूर्वपदमायुदात्तमित्यर्थः । गवाकृत्येति । एवं यत्र यथोपमानभावः सम्भवति तत्र तथा योज्यमिति बोद्धयम् । अके जीवि । जीविकार्थे समासे अकप्रत्ययान्ते उत्तरपदे पूर्वपदमायुदात्तमित्यर्थः । कृत्स्वरापवादः । दन्तलेखनादिजीविकायाः समासे प्रवृत्तिनिमित्तत्वात्समासस्य जोविकार्थत्वमित्याह यस्येति । प्रतिपदोक्तत्वाद् 'नित्यं क्रीडे 'ति विहितसमासे एवेदम् । अकग्रहणन्तु स्पष्टार्थम् । प्राचामिति । प्राग्देशवर्तिषु
1
1