________________
प्रकरणम् ] सुबोधिनी-शेखरसहिता। [५५५ ६७ ) गवाध्यक्षः । ३८०२ पापं च शिल्पिनि । (६-२-६८) पापनापितः। 'पापाणके-' (७३३) इति प्रतिपदोकस्यैव ग्रहणात् षष्ठीसमासे न । ३८०३ गोत्राऽन्तेवासिमाणवब्राह्मणेषु क्षेपे। (६-२-६६) भार्यासोश्रुतः । सुश्रुता. पत्यस्य भार्याप्रधानतया क्षेपः । अन्तेवासी । कुमारीदाक्षाः । श्रोदनपाणिनीयाः। कुमार्यादिलाभकामा ये दापयादिभिः प्रोकानि शास्त्राण्यधीयते ते एवं क्षिप्य. न्ते । भिक्षामाणवः । भिक्षा लप्स्येऽहमिति माणवः। भयब्राह्मणः । भयेन ब्राह्मणः संपद्यते । गोत्रादिषु किम् दासीश्रोत्रियः। क्षेपे किम्-परमब्राह्मणः । ३८०४ अङ्गानि मैरेये । (६-२-७० ) मद्यविशेषो मैरेयः। मधुमैरेयः । मधुविकारस्य तस्य मध्वङ्गम्। अङ्गानि किम्-परममैरेयः । मैरेये किम्-पुष्पासवः। मायुदात्तं वा स्यात् । अध्यक्ष शब्दोऽपि समासे युक्तवाच्येवेति पूर्वेण नित्ये प्राप्त विकल्पः। पापम् । पापमिति स्वरूपग्रहणं शिल्लिनीत्यर्थग्रहणं व्याख्यानात । शिल्पिवाचिनि परे पापशब्दः पूर्वपदमायुदात्तं वा स्यात् । गोत्रान्तेवासि । गोत्रवाचिनि अन्तेवासिवाचिनि चोत्तरपदे माणवब्राह्मण योश्च परतः क्षेपवाचिनि समासे पूर्वपदमायुदात्तं स्यात् । भार्यासौश्रुत इति । सुशृणोतीति सुश्रुत् तस्यापत्यं सौश्रुतः । भार्या. प्रधानतयेति । भार्या धानः सौश्रुत इति शाकपार्थिवादित्वादुत्तरपदलोपी समास इति दर्शयति । दक्षण प्रोक्तं दाक्षं तदधीते दाक्षः। कुमार्यादिलाभकाम इति । तत्प्रोक्ते ग्रन्थे श्रद्धायामसत्यामपि कुमार्यादिलाभकामः संस्तत्र प्रवर्तते तत एवं क्षिप्यते। पूर्ववत्समासः । भयदाह्मण इति । तृतीयेति योगविभागात्समासः। योऽब्राह्मणः सन् राजदण्डादिभयेन ब्राह्मणाचारं करोति स एवमुच्यते । अङ्गानि । अङ्गमारम्भकम् । बहुवचनं स्वरूपविधिनिरासार्थम् । मेरेयशब्दे उत्तरपदे तदर्थारम्भक चीनि पूर्वपदान्यायुदात्तानि स्युः । मद्यविशेष इति । सुराव्यतिरिक्तं मद्यं मैरेयमित्यर्थः । भक्काख्या । अन्नवाचि पूर्वपदमायुदात्तं स्यात्तदर्थेषूत्तरपदेषु । अत्र बहुवचननिर्देशा. देव स्वरूपविधिनिरासे सिद्ध श्राख्याग्रहणं भक्ष्यविशेषवाचिना निक्षादीनां ग्रहणार्थम् । अन्यथा पर्यायाणामेवान्नादीनां ग्रहणं स्यात् । भिक्षाकंसादयः षष्ठीसमासः । 'समि ख्यः' इति कः। विभाषाऽध्यक्षे । अध्यक्षशब्दो युक्तवाच्येवेति प्राप्तविभाषेयम् । पापश्च शि। शिल्पिवाचके पर इत्यर्थः । गोत्रान्ते । आद्ययोरर्थपहणम् , अन्त्ययोः शन्दग्रहणम् , अपत्याधिकारादन्यत्र लौकिकगोत्रग्रहणादाह सुश्रुतोऽपत्यस्येति। माणवब्राह्मणयोर्गोत्रत्वेन प्रसिद्धयभावाद् ग्रहणम् । ओदनपाणिनीया इति । श्रोदनकामत्वेन तेषाङ्क्षेपः । अङ्गानि मैरेये। सुराव्यतिरिक्तं मयं मैरेयम्, तद्वाचके उत्तरपदे तदारम्भकवाचीनि पूर्वपदान्यायुदात्तानीत्यर्थः ।