________________
५५२ ] सिद्धान्तकौमुदी। [समासस्वरमाणं किम्-काञ्चनधनम्। धने किम्-निष्कमाला । ३७६० प्रथमोऽचिरोपसं. पत्तौ। (६-२-५६) प्रथमशब्दो वा प्रकृत्याऽभिनवस्वे । प्रथमवैयाकरणः । संप्रति ग्याकरणमध्येतुं प्रवृत्त इत्यर्थः । प्रथमशब्दः प्रथेरमजन्तः । अचिरेति किम्प्रथमो वैयाकरणः । ३७६१ कतरकतमौ कर्मधारये । (६-२-५७ ) वा प्रकृत्या । कतरकठः । कर्मधारयग्रहणमुत्तरार्थम् । इह तु प्रतिपदोकत्वादेव सिद्धम् । ३७६२ आर्यो ब्राह्मणकुमारयोः। (६-२-५८) श्रायकुमारः। प्रायब्राह्मणः । पार्यों एयदन्तत्वादन्तस्वरितः । प्रायः किम्-परमब्राह्मणः। ब्राह्मणादीति किम्-मार्यक्षत्रियः । कर्मधारय इत्येव । ३७६३ राजा च । (६-२-५६) ब्राह्मणकुमारयोः परतो वा प्रकृस्या कर्मधारये। राजबामणः। राजकुमारः । योगविभाग उत्तरार्थः । ३७६४ षष्ठी प्रत्येनसि। (६-२-६) षष्ठयन्तो धिकाराभावात् । प्रथमो। अचिरोपसंपत्तिरचिरोपसंश्लेषः । अभिनवत्वमित्यर्थः । तदाह अभिनवत्व इति । अचीति किमिति । अचिरोपसंपत्ताविति किमि. त्यर्थः । प्रथमवैयाकरण इति । वैयाकरणानामाद्यः मुख्यो वा यः प्रथमवैयाकरणशब्दः स नित्यमन्तोदात्त एव । कतर । एतौ पूर्वपदभूतौ कर्मधारये प्रकृतिस्वरौ वा स्यातां कतरकतमौ उतरडतमयोश्चित्वादन्तोदात्तौ। इह त्वित्यादि । कतर कतमौ जातिपरिप्रश्ने' इति प्रतिपदोको यः समासस्तस्यैव ग्रहणम् । स च कर्मधारय एव । तस्मानेहार्थः कर्मधारयग्रहणेनेति भावः । पार्यो ब्राह्मण । ब्राह्मणकुमारयोरुतरपदयोरायः पूर्वपदं प्रकृतिस्वरं वा स्यात्कर्मधारये । अन्तस्वरित इति । 'तित्स्वरि. तम्' इत्यनेन । ब्राह्मणादीति किमिति। ब्राह्मणकुमारयोरिति किमर्थमित्यर्थः । राजब्राह्मण इति । राजशब्दो ब्राह्मणे ताद्धादर्तत इति सामानाधिकरण्याकर्मधारयः। राजशब्दः कनिन्प्रत्ययान्तत्वादाधु हात्तः । उत्तरार्थ इति । उत्तरो विधिः पीति । तत्पुरुषाधिकाराऽभावादिति भावः । प्रथमोऽचिरो । अचिरोप. संपत्तिः-अभिनवत्वम् । प्रथमवैयाकरण इति । वैयाकरणानामाद्यो मुख्य इत्यर्थकसमासे अयमन्तोदात्त एव । कतरकतमौ-डतरडतमयोश्चित्त्वादन्तो. दात्तौ। प्रतिपदोक्तत्वादिति । 'कतरकतमौ जातीति प्रतिपदोक्तस्यैव ग्रहणादित्यर्थः । कर्मधारय इत्येवेति । तेनाऽऽर्थस्य ब्राह्मण इत्यर्थे न दोषः । राजब्राह्मण इति । आधुदात्तो राजन्शब्दः । पक्षेऽन्तोदात्तत्वम् । राजशब्दो ब्राह्मणे ताद्धाद्वर्त्तत इति सामानाधिकरण्यम् । षष्ठीसमासेऽन्तोदात्तत्वमेव । योगविभागो यथासङ्घयनिवृत्त्यर्थ उत्तरार्थश्च । अत्र लिङ्गविशिष्टपरिभाषा नेति 'त्या'प्सूत्रे भाष्ये स्पष्टम् । एवं समासरूपसमुदायग्रहणेऽपि सा न । तेन 'बहोर्नञ्च'दिति सूत्रं 'बहु