________________
प्रकरणम् ] सुबोधिनी-शेखरसाहता। [५५१ कृणुहो पराचः । वप्रत्यये किम्-उदम्चनम् । ३७८७ न्यधी च । (६-२५३) वप्रत्ययान्तेऽश्चताविगन्तावपि न्यधी प्रकृत्या । न्यडुत्तानः । उदात्तस्वरितयोर्यण इति अञ्चतेरकारः स्वरितः । अध्यङ् । ३७८८ ईषदन्यतरस्याम् । (६-२-५४ ) ईषकडारः। ईषदित्ययमन्तोदात्तः । ईषभेद इत्यादौ कृत्स्वर एव । ३७८६ हिरण्यपरिमाणं धने। (६-२-५५) सुवर्णपरिमाणवाचि पूर्वपदं वा प्रकृस्या धने द्वे सुवर्णे परिमाणमस्येति द्विसुवर्ण तदेव धनं द्विसुवर्णधनम् । बहुव्रीहावपि परस्वाद्विकल्प एव । हिरण्यं किम्-प्रस्थधनम् । परि. पराशब्द अायुदात्तः । प्रत्यञ्च इति । कृदुत्तरपदप्रकृतिस्वरः । परत्वादिति । चुस्वरस्यावकाशः 1 दधीवा । यत्र गतिनास्ति । अनिगन्तस्वरस्यावकाशः पराञ्चः। पराच इत्यादावुभयप्रसङ्गे परत्वादनिगन्तस्वर एव भवति । न चायं युक्तो विप्रतिषेधः। चुस्वर : सतिशिष्टः भसंज्ञायामल्लोपे च कृते प्राप्तत्वात् । सत्यम् । नायं विप्रतिषेधः । किं तर्हि इष्टिरेव । चोः 'अनिगन्तेऽचतावप्रत्यये' इत्येव स्वर इष्यत इति हरदत्तः। इहापि मूले परत्वादित्यस्येष्टत्वादित्यर्थः । न्यधी च । अत्रापि चुस्वरादयमेव । कृत्स्वरापवादौ योगौ। ईषदन्य । ईषच्छन्दः पूर्वपदं प्रकृतिस्वरं वा स्यात् । अन्तोदात्त इति । फिट्स्वरेण । एतदभावे समासान्तोदात्तत्वम् । ईषद्भेद इति । ईषद्दुःसुषु कृच्छ कृच्छ्रार्येषु खल । कृत्स्वर एव भवतीति । परत्वात् । अथवा ईषद्गुणवचनेनेति प्रतिपदोवसमासग्रहणादुपपदसमासेऽस्याप्रवृत्तिरिति । द्वे सुवर्ण इति । 'पञ्चकृ' णलको माषस्ते सुवणेस्तु षोडश । पलं सुवर्णाश्चत्वारः' इति । द्विसुवर्णमिति । पक्षे समासस्वरः । बहुवीहावपीति । अत्र तत्पुरुषाप्रकृतिस्वर एव । परत्वादिति। सुस्वरावकाशः-'सा कद्रीची' अस्यावकाश:-'ये पराश्वः', उभयप्रसङ्गे परत्वादयमित्यर्थः । वस्तुतस्तु इष्टत्वादित्यर्थः । एतेनाऽस्मिन् समासस्वरे कृते विभतो 'अचः' इति लोपे कृते सतिशिष्टत्वाच्चुस्वर एवं प्राप्नोतीत्यपास्तम् , भाष्यकारेप्टथैव परिहारात् । अत्र 'चुस्वरादिति सतिशिष्टस्वरमात्रोपलक्षणमिति केचित् । उदात्तस्वरितयोरिति । स्वरसन्धेः पूर्व पूर्वोत्तरपदनिमित्त कार्यप्रवृत: पूर्वमेतस्मिन्स्वरे पश्चाद्यणि अस्य प्रवृत्तिः । अध्याक्त्यित्र 'उदात्तादनुदात्त. स्येति स्वरितः, एवम् 'अधीचा' इत्यत्राप्य यमेव स्वरश्चुस्वरात् । कृस्वरापवादाविमौ योगी । ईपद ! ईषदिति पूर्वपदं वः प्रकृत्येत्यर्थः, पक्षे समासान्तोदात्तः । कृत्स्वर एवेति । 'ईषद्गुणवचनेनेति प्रतिपदोक्लसमासस्यैव प्रहणादिति भावः । अत एव बहुव्रीहावपीदं न । केचित्तु परत्वात्कृत्स्वर एवेत्यर्थ इत्याहुः । बहुव्रीहाव.