________________
५५० ] सिद्धान्तकौमुदी। [समासस्वर५१) तवैप्रत्ययान्तस्यान्त उदात्तो गतिश्चानन्तरः प्रकृत्या युगपश्चैतदुभयं स्यात्। अन्वेतवा उ । कृरस्वरापवादः । ३७८६ अनिगन्तोऽञ्चतौ वप्रत्यये । (६२-५२) अनिगन्तो गतिर्वप्रत्ययान्तेऽवती परे प्रकृया। ये पराञ्चस्तान् । भनिगन्त इति किम्-प्रत्यञ्चों यन्तु । कृरस्वरात्परत्वादयमेव । जहि वृष्ण्यानि ननु कृतीति व्यर्थम् । तथा हि गतेरयं स्वरो विधीयते, गतिसंज्ञा च धातुमाक्षिपति स च प्रत्ययविशिष्ट एव प्रयोगार्हः । धातोश्व द्वये प्रत्ययाः तिकः कृतश्च । तत्र तिङन्ते पूर्वपदत्वासंभवाद् कृदन्त एव भविष्यतीति चेत्सत्यम् । कृद्ग्रहणं कृत्संज्ञाप्रवृत्तिकालोपलनणार्थम् , तेन कृदुपदेशे तादित्वलाभात्प्रलपितेत्यादि सिध्यति । स्वरप्रवृत्तिवेलायो तादित्वाभावेऽपि पूर्व तत्सत्वात् । आदिग्रहणं शक्यमकर्तुं यस्मि. विधि-' इत्येव सिद्धेः । तवैचा । अन्त उदात्त इति। कथं पुनरन्तरेणोदात्तप्रहणमुदात्तो भवतीत्ययमों लभ्यते । शृणु। प्रकृत्येति वर्तते तत्रैवममिसंबन्धः कियते । तवेप्रत्ययान्तस्य यः प्रकृत्याश्रयः स्वरः प्राप्तः सोऽन्तस्य भवतीति, स चोदात्त एवेति, युगपद्ग्रहणं पर्यायनिवृत्त्यर्थम् । अन्वेतवा उ इति । 'उपसर्गावाभिवर्जम्' इत्यनुरायुदात्तः । अनिगन्तेऽञ्चती। पराञ्च इति । 'ऋत्विक्इत्यादिना किन स च वकारमात्रं ककारादीनामनुबन्धत्वात् । 'उगिदचाम्-' इति नुम्
आगन्तुरिति । नन्वताविति पर्युदासः क्तिन एवोचितः, 'वृष्णे चोदस्व मुष्टुति'. मित्यादौ गतिस्वराऽदर्शनादिति चेन, तत्रोपायान्तरस्यैवाऽनुसतव्यत्वात् । न यताविति पर्युदासेन तन्निर्वाहः कृदुत्तरप्रकृतिस्वरेणः धातोरुदात्तत्वापत्तेः, अन्तोदात्ततायाश्च तत्रेष्टत्वात् । किं चाऽताविति क्तिनः पर्युदासे 'प्रभूतो साति'मित्यादौ गतिस्वरो न सिद्धयेत् , तस्मात्तुन एवायं पर्युदासः । यत्तु 'मक्तिन्व्याख्याने त्यादिना सुष्टुत्यादावन्तोदात्तत्वमिति, तन्न, प्रभूतावित्यादिसिद्धये तत्र कारकानुवृत्तेन्याय्यत्वात् , वृत्तिकृता दर्शितत्वाच्च । 'वृष्णे चोदस्व सुष्टुति'मित्यादौ तु स्तोत्रकरणीभूताया ऋचः साध्वसिरित्यादिवत्कर्तृत्वविवक्षायां तिजन्तत्वान्न दोषः । तवै चान्त । कृस्वराऽ. पवादः । अन्त उदात्त इति । यद्यप्युदात्तग्रहणं दुर्लभम् , तथापि 'गतिः प्रकृत्या भवती'त्युक्ते उदात्तो बुद्धिमारोहतीति स एवान्तस्य भवतीति भावः । अनन्तर इति। अत्रापि पूर्ववदेव व्यवस्था । अन्वेतवा इति । अनुरुपसर्गत्वादाधुदात्तः । त्यञ्च इति । ननु 'अनिगन्तः' इत्युक्तावपि 'प्रत्यञ्च'मित्यादौ यणि अनिगन्तत्वादतत्प्रवृत्तिारा । न च स्थानिवत्त्वम् , पूर्वपदस्य कार्यित्वेनाऽपूर्वविधित्वात् । 'अनिगन्त' इति तु 'प्रतीच' इत्येतद्यावृत्त्या चरितार्थमिति चेन्न, 'इगन्तस्य यणादेशे कृतेऽपि प्रतिषेधः' इति वचनेनैव निर्वाहात् । एवञ्च 'प्रत्यवः' इत्यादौ कृदुत्तरपद.