________________
प्रकरणम् ] सुबोधिनी शेखरसहिता। [ ५४६ दूरादागतः । ३७८४ तादौ च निति कृत्यतौ। (६-२-५०) तकारादौ निति तुशब्दवर्जिते कृति परेऽनन्तरो गतिः प्रकृत्या । अग्ने रायो नृतमस्य प्रभूतौ । संगति गोः । कृत्स्वरापवादः । तादौ किम्-प्रजल्पाकः । निति किम्-प्रकर्ता । तृजन्तः । अतो किम्-भगन्तुः । ३७८५ तवै चान्तश्च युगपत् । (६-२सूत्रमिति दिक् । दूरादात इति । 'स्तोकान्तिक-' इ.ते समासः । 'पञ्चम्याः स्तोकादिभ्यः' इत्याजुकू । भूताविति । क्लिन्न यम् । प्रजल्पाक इति । 'जल्प. भिक्षकुलुण्टङः पाकन्' । आगन्तुरिति । 'सितनिगमिव्यविधाकुशिभ्यस्तुन्'। थाथादिस्वरेणान्तोदात्तत्वात्तिः, इष्यते तूच्छब्दस्य स्वरः, 'संसृष्टं धनमुभयं समाकृत'मित्यादिमन्त्रे समाकृतशब्दे अाङः स्वरदर्शनात् । न चासौ प्रकृतसूत्रेण सिद्धयति, प्रथमसमासे तत्प्राप्तावपि वेतीयसमासे थाथादिस्वरप्रवृत्तेरुतत्वात् । न च तं बाधित्वा गतिस्वरः प्रवर्तते, अभ्युद् धृतशब्दे उदःपूर्वपदत्वाऽभावादिति चेन्न, 'धातोरनन्तर-' इति व्याख्यानादेव, योगविभागेनाऽनन्तरो गतिरपूर्वपदमपि प्रकृत्येति व्याख्यानादेव वा पूर्वपदत्वं विनाऽप्यस्य प्रवृत्तिस्वीकारात् । अन्यथा धातुं प्रति गतित्वेन तं प्रति पूर्वपदत्वाऽसम्भवन सूत्रार्थाऽपङ्गतेः । एवञ्चाभ्युद्धृतमित्यत्रोद एव स्वरः । इदमेवा. ऽनन्तरग्रहणं कृग्रहणपरिभाषाया ज्ञापकमित्यन्यत्र प्रपश्चितम् । नन्वेवमपि व्यवहितवारणेन 'धातोरनन्तर..' इति व्याख्यानस्य चारितार्थेन कथं सतिशिष्टथाथादिस्वरबाधकत्वमिति चेन्न, 'अहीने द्वितीयेति सूत्रादनुपसर्गग्रहणमत्राऽनुवर्तते । तेनैव 'अभ्युद्धृत'मित्यादौ अभ्यादेावृत्तिसिद्धौ अनन्तरग्रहणात्कक्षान्तरप्राप्तथाथादिस्वरबाधः, एवञ्चात्र तत्सामर्थ्यात्पूर्वपदमित्यपि न सम्बध्यत इत्याहुः । कारकपूर्वस्य त्विति । अयं भावः-'कारकाद्दत्ते'ति सूत्रे कारकादिति योगो विभज्यते । क्लरहणं गतिग्रहणञ्चानुवर्तत, कारकात्परं क्लान्तं सगतिकमुत्तरपदमन्तोदात्तं स्यादि. त्यर्थः । एवञ्च 'दूराद्धृत- इत्यादौ थायादिस्वरेण कृत्स्त्ररेण वा सिद्धरिदं 'दूरादागत' इत्यादावाभ्युद्धृतन्यायेन प्रतगतिरनन्तर इत्यस्य बाधनार्थम् । एतेनोक्तरीत्या दूरादागत इत्यादौ कारकपूर्वेऽपि गतिस्वरः स्यात् , इष्यते तु थाथादिस्वर इत्यपास्तमिति दिक् । तादौ च नि । कृत्स्वरापवादोऽयम् । तकारादेर्नित्प्रत्ययस्याऽकृतो. ऽभावाद्गतिग्रहणेन धातोरातेपेण तत्प्रकृतिकप्रत्ययस्येव प्रहणाच कुल्लाभे कृग्रहणं कृत्सज्ञाप्रवृत्तिकाले यस्तकारादिस्तग्रहणार्थम् । तेन प्रलपितेत्यादि सिध्यति । स्वरप्रवृत्तिवेलायो तादित्वाऽभावेऽपि पूर्वन्तत्सत्त्वात् । 'यस्मिन्विधि'रित्येव सिद्धे आदिप्रहणश्चिन्त्यप्रयोजनम् । अनन्तर इति। अत्रापि पूर्वसूत्रवदेव व्यवस्था बोध्या ।