SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ ५४८ ] सिद्धान्तकौमुदी । [ समासस्वर अनन्तरः किम् - श्रभ्युष्टतः । कारकपूर्वपदस्य तु सतिशिष्टस्य थादिस्वर एव । अभ्युद्घृत इति । इह हृतशब्दस्योच्छब्देन समासे पुरोहितमित्यत्रेव गतिस्वरेगानुदात्त उद्धृतशब्दस्तस्य पुनरभिशब्देन समासः । तस्य 'कृद्द्महणे गतिकारकपूर्वस्यापि ग्रहणम्' इति परिभाषया उद्धृतशब्दः क्लान्त उत्तरपदम । एवं समासान्तो दात्तत्वे प्राप्ते तद्वाधकाव्ययपूर्वपदप्रकृतिस्वरत्वे तदपवादे कृत्स्वरे तदपवादस्थाथादिस्वरः प्राप्तस्तम पोह्या भेरयं स्वरः स्यात्सोऽनन्तरग्रहणेन वार्यते । नन्वन्तरप्रहणेनाप्यसौ दुर्वारः कृद्ग्रहणपरिभाषया उद्घृतशब्दस्य क्लान्तत्वेऽमेस्तदानन्तर्य सत्त्वादिति चेन्मैवम् । अनन्तरप्रहणसामर्थ्याद्धि धातोरनन्तरा गतिराश्रीयते । श्रभिश्च न तथा । नन्वेवं मा भूदभेः स्वरः, इष्टसिद्धिस्तु कथम् । अभ्युद्घृतशब्दे हि उच्छब्दस्य स्वर इष्यते 'संसृष्टं धनमुभयं समाकृतम्' इति मन्त्रे समाकृतशब्दे प्राङ स्वरदर्शनात् । न चासौ प्रकृतसूत्रेण सिध्यति । प्रथमसमासे तत्प्रवृत्तावपि द्वितीयासमासे थाथादिस्वरस्य प्राप्तेरुक्तत्वात् । न च तं बाधित्वा गतिस्वरः प्रवर्तत इति वाच्यम् । द्वितीयासमासे उदः पूर्वपदत्वाभावाद् अत्रोच्यते - धातोरनन्तर रति व्याख्यानादेव पूर्वपदत्वं विनापि स्वरोऽयं प्रवर्तते । न हि क्वप्रकृतिभूतं धातुं प्रति पूर्वपदत्वं गतेः सम्भवति । तस्मादभ्युद्घृतं समाकृतमिति तावत्सुस्थम् । ननु दूरादागत इत्यादौ कारकपूर्वेऽपि गतिस्त्ररः स्याद् इष्यते तु थाथादिस्वरः । अत आह कारकपूर्वेति । अयं भावःअनन्तरशब्दोऽयमनन्तरमपेक्ष्य प्रवर्तते तत्र चानन्तरो गतिरित्युक्ते अनन्तरोऽपि सन्निधानादतिरेव प्रतीयते । ततश्चापूर्व पदार्थमप्यनन्तरग्रहणं गतिद्वयसमवधाने एवानन्तरस्य प्रकृतिस्वरत्वं प्रापयतीति दूरादागतादौ न दोष इति । अथवा ' कारकाद्दत्तश्रुतयो:' इति सूत्रे कारकादिति योगो विभज्यते । क्तप्रहणं गतिप्रहणं चानुवर्तते । कारकात्परं क्लान्तं सगतिकमुत्तरपदमन्तोदात्तं स्यादित्यर्थः । तत्र दूरागत इत्यादौ थाथादिसूत्रेणैव सिद्धत्वाद् दूरादागत इत्यादौ ' गतिरनन्तरः' इत्यस्य बाधनार्थमेवेदं ऽन्तोदात्तः । थाथादिस्वरापवादोऽयम् । अभ्युद्घृत इति । इह हृतशब्दस्यो च्छब्देन समासे पुरोहितमित्यत्रेव गतिस्वरेणायुदात्त उद्धृतशब्दः । तस्य पुनरभिशब्देन समासः । श्रयमेव समासक्रमो भाष्यादिसम्मत इति प्रागेव निरूपितम् । तत्र कृद्प्रहणपरिभाषया उद्धृतस्य क्लान्तोत्तरपदत्वात् । अपवादक्रमेण समासान्तोदात्तत्वे तद्वाधकाऽव्ययपूर्वपदप्रकृतिस्वरत्वे, तद्वाधककृत्स्वरे, तद्बाधकथाथादिस्वरे प्राप्ते तमपोद्याऽयं प्राप्तः । नन्वनन्तरग्रहणेऽप्यसौ दुर्वारः, कृग्रहणपरिभाषयोद्धृतस्य क्लान्तत्वेऽभेस्तदानन्तर्यस्य सत्त्वादिति चेन, अनन्तरप्रहणसामर्थ्याद्धि धातोरनन्तरो गतिराश्रीयतेऽभिश्व न तथेति न दोषः । नन्वभिस्वराऽभावेऽपि श्रभ्युद्घृतशब्दस्य
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy